________________
श्रीगौतमीयकाव्यं
कर्म विदन्तीति दैवविदो ज्यौतिषिकास्तेषां किं रहः प्रच्छन्नं स्थितं ? प्रायो न किमपीति भावः ।। १७ ॥ ३ न लौकिकाऽलौकिकशब्दशक्तयः
पदार्थबोधे प्रभवन्ति या विना।
निरुक्तयस्ताः श्रुतपारदृश्वतां ६ शशंसुरस्यैव सुधीसभोदरे ॥ १८॥
लोके व्याकरणे भवा लौकिकाः अलौकिकास्तद्विपरीता वेदका (वैदिक्यः) इत्यर्थः । एवंविधा ये शब्दास्तेषां शक्तयः सङ्केताः या ९निरुक्तीः विना पदार्थबोधे पदार्थज्ञानजनने न प्रभवन्ति न समर्था भवन्ति ता निरुक्तयः शब्दव्युत्पत्तयः सुधियां पण्डितानां सभा धीसभा तस्या उदरे मध्येऽस्य गौतमस्यैव श्रुतपारदृश्वतां शास्त्रपारगामित्वं १२ शशंसुः कथयामासुः । निरुक्तय इति । 'वर्णागमो वर्णविपर्यय
श्वे'त्यादिभिर्वचनं निरुक्तिः। श्रुतेत्यादि । श्रुतस्य पारं दृष्टवानिति
श्रुतपारदृश्वा । दृशेः कनिप् । तस्य भावस्तत्ता तां । शशंसुरिति । १५ 'शंस स्तुतौ' अस्मात्कर्तरि लिट् ॥ १८ ॥ - पपाठ वेदान् यदधीत्य पञ्चधा यथासुरन्यासमुपाङ्गसङ्गिनः।
ततोऽयमेवाध्वरकर्मकारिणामुवाह धौरेयपदं धरातले ॥१९॥ १८ यद्यस्मात्कारणात् उपाङ्गानि वेदोक्तार्थप्रपञ्चनपराः प्रबन्धास्तेषां
सनोऽस्त्येषामिति उपाङ्गसङ्गिनस्तान् उपाङ्गसंयुक्तान् वेदान् ऋक्प्रभृतीन् अधीत्य अभ्यस्य गौतमः सुरन्यासमनतिक्रम्येति यथासुर२१ न्यासं हविर्दानकाले इन्द्रादिसुरस्थापनानतिक्रमेण पञ्चधा पञ्चभिः
प्रकारैः पपाठ पठति स्म । वेदानित्येव कर्मपदमत्रापि योज्यं, तत२३ स्तस्मात्कारणादऽयं गौतम एव धरातले पृथिव्यां अध्वरकर्मकारिणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org