________________
गौतमीयप्रकाशाख्यटीकया सहितम् । ८५ सुनृत्यसङ्गीतकवित्वकर्मणां
प्रसाधनी छान्दसकर्मपद्धतिम् । अनन्यगम्यां यदसौ तथा न्ववे
द्यथाऽधरोऽभूदपि पिङ्गलोरगः ॥ १६ ॥ यद्यस्मात्कारणात् सुनृत्यं च शोभननाट्यं सङ्गीतं च सम्यग्गानं कवित्वकर्म च काव्यकर्तृत्वादिकवित्वक्रिया तेषां प्रसाधनी प्रकृष्ट-६ कारणभूतां पुनर्न अन्यैरेतव्यतिरिक्तैस्तादृशी गम्यते ज्ञायते या साऽनन्यगम्या ताम् । छन्दोवर्णमात्रावृत्तशास्त्रमधीयते ये ते छान्दसास्तेषां कर्म क्रिया प्रस्तारादिरूपा तस्य पद्धतिर्मार्गस्तां, 'नु' इति ९ वितर्के, असौ गौतमस्तथा तेन प्रकारेण अवेत् जानाति स्म । यथा पिङ्गलोरगः छन्दःशास्त्रप्रकाशकः पिङ्गलनागोऽपि अधरोऽभूत् । एतदऽपेक्षया न्यूनोऽभूदित्यर्थः । अवेदिति । 'विद ज्ञाने' अदादि-१२ कोऽस्मात्कर्तरि लङ् ॥ १६ ॥ रवीन्दुताराग्रहधिष्ण्यचारतः प्रसाध्य कालत्रितयं निमित्तवित् ।
१५ समस्तलोकस्य शुभाशुभान्यसौ
विवेद किं दैवविदां रहः स्थितम् ॥ १७ ॥ निमित्तं निमित्तप्रतिपादकं शास्त्रं वेत्तीति निमित्तवित् , असौ १८ गौतमो रविश्व इन्दुश्च ताराश्च ग्रहाश्च धिष्ण्यानि च नक्षत्राणि रवीन्दुताराग्रहधिष्ण्यानि तेषां चरणं चारस्तस्मात् कालत्रयं भूत-भविष्यद्वर्तमानरूपं प्रसाध्य साधयित्वा समस्तलोकस्य शुभाऽशुभानि निमिचानि वेद जानाति स । युक्तोऽयमर्थः-दैवं प्राकृतं शुभाऽशुभं २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org