________________
श्रीगौतमीयकाव्यं
आद्यकोविदैः प्राचीनपण्डितैः श्रुतेषु आचारविचारशास्त्रेषु यत् सदा सर्वस्मिन् काले उचितं योग्यं नीतिविचारस्य न्यायविचारस्य ३चेष्टितं कर्म सूत्रितं रचितम् , अस्तीति शेषः । तथैव तेनैव प्रकारेण अस्येन्द्रभूतेः कल्प आचारः खभावतः खभावेन शास्त्राऽऽलोकनमन्तरेणैवेत्यर्थः। भवन संपद्यमानः कल्पागममाचारप्रतिपादकशास्त्रमात्मनः ६ खस्य साक्षिणं साक्षिभूतं चकार । भवन्निति । भूधातोर्लटः शतृ॥१४॥
पुरःसरोऽसौ पदवाक्यवेदिना
मभूच्छिशुत्वेऽपि ललन् खलीलया। ९ ततो द्वयोर्गीपतिसर्पराजयो
__ स्यं तृतीयो भुवि पूज्यतापदे ॥ १५ ॥
असौ इन्द्रभूतिः शिशुत्वे बालभावेऽपि आस्तां तारुण्ये इति १२ अपिशब्दार्थः । खलीलया खक्रीडया ललन् विलासं कुर्वन् पद
वाक्यवेदिनां पदवाक्यज्ञानभृतां शाब्दिकानां पुरःसरोऽग्रेसरोऽभूत् ।
ततस्तस्मात्कारणाद्वयोर्गीतिसर्पराजयोः स्वर्गपातालस्थयोवृहस्पतिशेष१५ नागयोर्मध्ये भुवि पृथिव्यां पूज्यतापदे पूज्यत्वस्थाने तृतीयोऽयं
गौतमोऽभूदिति क्रियापदं पुनर्योज्यम् यथा खर्गे बृहस्पतिः पाताले च
शेषनागस्तथा मर्त्यलोकेऽयं पूज्योऽभूदित्यर्थः । 'पदे' त्यादि-पदानि १८घटपटादीनि, वाक्यानि घटमानयेत्यादीनि सर्वशास्त्रानुगतानि तानि विदन्ति तच्छीला इति विग्रहः । वैयाकरणानां मते 'सुप्तिङन्तं
पदम्', एकतिङ् वाक्यम् । नैयायिकानां तु 'शक्तं पदं शक्तिमदित्यर्थः, २१ पदसमूहो वाक्यम् । ललनिति । 'लड विलासे' अस्माल्लटः
शतृ, डलयोरेकत्वस्मरणादूपसिद्धिः । गीर्यतीति । अहरादीनां २३ पत्यादिष्विति पाक्षिको रेफः ॥ १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org