________________
श्रीगौतमीयकाव्यं
स्थावरत्रससूक्ष्मबादरपर्याप्ताऽपर्याप्तादिभेदैरवसेयम् ।। अत्र प्रयोगः-- नानारूपा भुवि जीवाः, लक्षणादिभेदात् , कुम्भादिवत् , यच्च न भिन्न ३न तस्य लक्षणभेदः, यथा नभस इति । अपि च एकत्वे सति जीवानां सुखदुःखबन्धमोक्षादयो नोपपद्यन्ते सर्वगतत्वान्नमस इव । यत्र तु सुखादयो न तत्सर्वगतं, यथा देवदत्त इत्यादि । इत्थं चैकत्वे सुखा६ धनुपपत्तेर्नानात्वं जीवानामिति स्थितम् । अत्र नैयायिकाः --- 'भवतु तहि जीवानां नानात्वं किंत्वेकैको जीवः सर्वजगद्व्यापकोऽस्तु इति वदन्ति', तत्रोच्यते-जीवस्य सर्वजगद्व्यापकत्वं तावदसङ्गतमेव ९प्रतिभावतः प्रतिभाति । अस्य हि शरीरमात्रावस्थायित्वस्यैव प्रमाणसिद्ध. त्वात् । तथा च प्रयोगः -देहमात्रस्थो जीवः तत्रैव तद्गुणोपलब्धेः,
यथा खात्ममात्रे घट इति । अथवा यो यत्र प्रमाणैर्नोपलभ्यते तस्य १२ तत्राभाव एव, यथा भिन्ने घटे पटस्य, नोपलभ्यते च शरीराबहिर्जीवः, तस्मात्तस्य तत्राभाव एव । इत्यलं प्रसङ्गेन ॥ ७५ ॥
तदेवं केषांचिद्वेदपदानामर्थं व्याख्याय साम्प्रतमुपसंहरन् सर्वेषां १५च वेदपदानां सङ्केपतोऽर्थमुपदर्शयंश्चाह
एषां वेदपदानां यत्तमर्थ वेत्सि नैव तत् । करोषि संशयं जीवे, सर्वेषामथवा ध्रुवम् ॥ ७६ ॥ अर्थः किं वा भवेच्छब्दो जातिव्यं गुणः क्रिया । विज्ञानं वस्तुभेदो वाऽयुक्तोऽयं संशयस्तव ।। ७७॥
- १ परस्परमेदभाजा इत्यर्थः । २ बुद्धिमत्तो नरान् । ३ पटात् पृथक्स्थिते - घटे पटस्य सत्ता नोपलभ्यते अत एव तदभावोऽवसीयते इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org