SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । ८१ अधुनैव इदानीमेव जगदीशतापदे त्रैलोक्यप्रभुतापदेऽभिषिक्त इव कृताऽभिषेक इव इति अदृश्यत, लोकैरिति शेषः । दृशेः कर्मणि लङ् ॥ ८॥ अथ यजातं तदाहद्विजाश्रयोञाऽवसरे तु गुर्वराभिधोऽभवत्संवसथस्तदन्तिके । इहावसगोतमगोत्रभास्करो द्विजातिरिन्द्रादिमभूतिराख्यया॥९॥६ _ 'तु' इति विशेषे, अनाऽस्मिन्नवसरे तदन्तिके तस्य समवसरणस्य समीपे द्विजानां ब्राह्मणानामाऽऽश्रयो द्विजाश्रयः गुर्वरः अभिधा यस्य स गुर्वराभिधो गुर्वरनामकः संवसथो ग्रामोऽभवत् । इहाऽस्मिन् गुर्वर-९ ग्रामे गोतमगोत्रे भास्करः सूर्यतुल्यः आख्यया नाम्ना इन्द्रादिमभूतिः इन्द्रभूतिनामेत्यर्थः, द्विजातिर्ब्राह्मणोऽवसत् । अभिध इति । 'अथाऽsहयोऽभिधा, गोत्रसंज्ञानामधेयाऽऽल्याऽऽहाऽभिख्याश्च नाम चेति १२ हैमः । इन्द्रादिमेति । आदौ भव आदिमः, इन्द्र आदिमो यस्य भूतिशब्दस्य इत्यादिविग्रहः ॥ ९॥ अथ गौतमवर्णनमाह शरनिशानाथकरोत्करोविलं __ यशो यदीयं विललास भूतले । अवाप पृथ्वीवसुभूतितस्तु यो जनि नरनं स कथं भवेन हि ॥१०॥ शरदः शरत्कालस्य यो निशानाथश्चन्द्रस्तस्य कराणां किरणानामुत्करः समूहः शरन्निशानाथकरोत्करस्तद्वदुज्वलं निर्मलं यदीयं यशो भूतले विललास विलसति स्म, खेच्छया संचचारेत्यर्थः । तु २२ ६ गौ० का० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy