________________
८२
पुनर्यः इन्द्रभूतिः पृथ्वीवसुभूतितः पृथ्वीवसुभूतिनामभ्यां मातापितृभ्यां जनिमुत्पत्तिं अवाप प्राप्तवान् स नरत्नं मनुष्येषु रत्नतुल्यः ३ कथं न हि भवेत् ? भवेदेवेत्यर्थः । जनिमिति । 'जननं जनिरुद्भव ' इति हैमः ॥ १० ॥
श्रीगौतमीयकाव्यं
१८
सुलक्षणं सर्वमपि स्वभावतः शरीरमेतस्य गुणानुवाच यत् ।
सुहृत्तयाऽनीक्षितलक्षणान्यपि
व्यभावयन्नस्य गुणास्तदुज्वलाः ॥ ११ ॥ एतस्य इन्द्रभूतेः शरीरं यद्यस्मात्कारणाद्गुणान् गाम्भीर्यौदार्यादीन्, सुहृत्तया मित्रतया इन्द्रभूतेः सर्वमपि वस्तु स्वभावतः सुलक्षणं शोभनलक्षणयुक्तं उवाच कथयति स्म तत्तस्मात्कारणात् उज्ज्वला गुणा १२ अस्येन्द्रभूतेः अनीक्षितानि अदृष्टानि लक्षणान्यपि व्यभावयन् प्रादुरकुर्वन् प्रकटीकुर्वन्ति स्मेति यावत्, एतावताऽस्य शरीरेण ज्ञापितानि सुलक्षणानि गुणाः प्रादुश्चकुरिति भावः । व्यभावयन्निति । १५ विपूर्वाद्धेतुमण्णिजन्ताद्भूधातोः कर्त्तरि लङ् ॥ ११ ॥
"
पृथक्पृथग्वर्षधराचलाश्रयाः श्रुते श्रुताः श्रीप्रमुखास्तु देवताः । समैक्ष्यताsत्रैव सुरीसमुच्चयः
स्वलक्षणैरेष तु तच्चदर्शिभिः ॥ १२ ॥
श्रुते सिद्धान्ते तु श्रीप्रमुखाः श्रीहीधी कीर्तिसंज्ञिका देवताः २१ पृथक् पृथक् भिन्नो भिन्नो वर्षधराचलो हिमवदादिवर्षधरः पर्वत आश्रयो निवासस्थानं यासां ता एवंविधाः श्रुताः संतीति शेषः, २३ 'तु' इति विशेषे, तत्त्वदर्शिभिस्तत्त्वज्ञानिभिरेष श्रीही प्रमुखाः सुरी
Jain Education International For Private & Personal Use Only
www.jainelibrary.org