________________
८०
श्रीगौतमीयकाव्यं
अस्य भगवतोऽसह्यतेजोऽन्येषां सोढुमशक्यं तेजोऽपरैलोकैर्न विषह्यते न विशेषेण सह्यतेऽतोऽस्य दर्शनं लोकैर्न सुलभं न सुप्रापं, ३ दुर्लभं भविष्यतीत्यर्थः । इति प्रमाय इति ज्ञात्वाऽनिमिषैर्देवैः प्रभो - हस्तेजोऽपवर्त्य सह्यं विहाय असह्यं गृहीत्वा भामण्डलं प्रभाचक्रं एकतः कृतं एकत्रीकृतमित्यर्थः ॥ ६ ॥
तद्भामण्डलमस्यैव भगवतो यद्वराङ्गं मस्तकं तस्य पृष्ठतः पृष्ठदेशे न्यधीयत स्थाप्यते स्म । अत्रानिमिषैरिति कर्तृपदमुक्तमेव, ततस्तपृष्ठस्थापनानन्तरं अत्र भामण्डले प्रतिबिम्बपाततः खमूलदेहस्य ९ प्रतिबिम्बपतनात् नाथः श्रीवीरपरमेश्वरः समस्तकाष्ठासु सर्वदिक्षु अपि संमुखं स्थितस्तथा समस्त सिंहासनगः सर्वसिंहासनस्थोऽपि अलक्ष्यत दृश्यते स्म । लोकैरिति शेषः । यस्तु अत्र शेषदिकत्रये भामण्डले १२ एव प्रतिबिम्बसङ्क्रम उक्तो न तु पृथग्मूर्त्तित्रयं तन्मतान्तराश्रितं ज्ञेयम् । बृहत्कल्पादौ तु - ' तिदिसिं पडिरूवयाय देवकया-' ( उद्दे० १ भाष्य गा० ११८३) इत्यादिवचनात् शेषदिक्षु देवकृतं भगवत्तुल्यरूपं १५ पृथग् मूर्त्तित्रयमुक्तमस्तीति । लोकैरिति । 'न लोकाव्यय - ' ( २/३/६९ ) इत्यादिना न षष्ठी । वराङ्गेति । ' वराङ्गं करणत्राणं शीर्षं मस्तकमित्यपी' ति हैमः । काष्ठेति । 'काष्ठाऽऽशादिग्रहरिक१८ कुबि' ति हैमः ॥ ७ ॥
२१
तदा निनेदुर्दिवि तूर्यकोटयो जयध्वनिश्व प्रससार सर्वतः । इवाभिषिक्तो जगदीशतापदेऽधुनैव देवैरयमित्यऽदृश्यत ॥ ८ ॥
तदा तस्मिन्नवसरे दिवि आकाशे तूर्याणां वेणुवीणामृदङ्गादीनां कोटय निनेदुर्निनादं कुर्वन्ति स्म । च पुनः सर्वतः सर्वदिक्षु जय२३ ध्वनिर्जयजयशब्दः प्रससार प्रसरति स्म । ततश्च देवैरऽयं भगवान्
Jain Education International For Private & Personal Use Only www.jainelibrary.org