________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
इमां समारुह्य सुरासुरेश्वरो दिशस्तु प्राच्याः प्रविवेश तोरणम् । ततः परिक्रम्य हरेर्दिगासने
'नमोsस्तु तीर्थाय ' वदन्नुपाविशत् ॥ ५ ॥
तु इति विशेषे, सुराऽसुराणामीश्वरो भगवान् वीर इमां मणिपीठिकां समारुह्य प्राच्या पूर्वस्या दिशस्तोरणं प्रविवेश ततः परि ६ क्रम्य चैत्यद्रुमस्य प्रदक्षिणां विधाय 'तीर्थाय नमोऽस्तु' इति वदन् जल्पन् हरेरिन्द्रस्य दिक् पूर्वा तस्यां यदासनं सिंहासनं तस्मिन् उपाविशत् उपविशति स्म । तीर्थशब्देनात्र सङ्घ उच्यते । प्राच्या ९ इति । 'पूर्वा प्राची दक्षिणाऽपाची 'ति हैमः । अत्र प्राक्षरे परे पूर्वह्रस्य गुरुत्वाच्छन्दोभङ्गो न शङ्कयः, छन्दःशास्त्रे हमशब्दयोः परयोः पूर्वस्वस्य विभाषया गुरुत्वाभिधानात् ॥ ५॥
असह्यतेजो न विषद्यते परैरतोऽस्य लोकैः सुलभं न दर्शनम् ।
इति प्रमायाऽनिमिषैः प्रभोर्महो
ऽपवर्त्य भामण्डलमेकतः कृतम् ॥ ६ ॥ न्यघीयतास्यैव वराङ्गपृष्ठत
स्ततोsa नाथः प्रतिबिम्बपाततः ।
समस्तकाष्ठास्वपि संमुखं स्थितः
समस्तसिंहासन गोऽप्यलक्ष्यत ॥ ७ ॥ युग्मम् ।
१ तथा च छन्दःकौस्तुभे
"अनुखारी विसर्गी च दीर्घो युक्त परस्तथा । वर्णो गुरुर्मतो हे प्रे पादान्ते चापि वा लघुः ॥”
७९
Jain Education International For Private & Personal Use Only
१२
પ
१८
२१
www.jainelibrary.org