SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीगौतमीयकाव्यं खर्णकमलानि तेषां पजिषु श्रेणिषु क्रममनतिक्रम्येति यथाक्रमं क्रमेण द्वयोर्द्वयोः स्वर्णपद्मयोरित्यर्थः । क्रमाम्भोजयोश्चरणकमलयोर्युगं युगलं ३ दधत् धारयत् गजेन्द्रगत्या गजराजसदृशगत्या चैत्यद्रुमस्य समवसरणमध्यस्थाशोकवृक्षस्य संमुखं चचार सञ्चरति स्म । चः पादपूरणे । दधदिति । 'नाभ्यस्ताच्छतुः' (७११७८) इति न नुम् । चैत्येति । ६ चैत्यं जिनौकस्तबिम्बं चैत्यो जिनसभातरु रित्यनेकार्थः । 'ननु वर्णपद्मयोः पदस्थापनं तु प्राक्तने सर्गे उक्तमेवासीत्पुनरत्र तदुक्तिः कथमिति' चेदुच्यते-पूर्व संक्षेपत उक्तम् , अत्र किंचिद्विस्तर इति न दोषः ॥२॥ ९ अचेलतां बिभ्रदपि प्रभाभरैरुदारवासोभिरिवोपशोभितः। विनाप्यलङ्कारभरावधारणं विभूषणाव्यस्य रमामिवोद्वहन्॥३॥ सितातपत्रत्रितयाधरे चरन् विलोलवालव्यजनाभिवीजितः। ५२ समुत्थविष्वग्जयशब्दसूचितः समागमद्रनचतुष्किकामिनः ४ '. भगवान् अचेलतां निर्वस्त्रतां बिभ्रदपि धारयन्नपि प्रभाभरैः खदेहदीप्तिसमूहैः उदारवासोभिः प्रधानवस्वैरिव उपशोभितः पुनर१५ लंकारभरस्य विभूषणसमूहस्यावधारणं देहे स्थापनं विनापि विभूषणै राढ्यस्य समृद्धस्य रमां लक्ष्मी उद्वहन्निव धारयन्निव ॥ ३ ॥ .... __ एवंविध ईनः श्रीवीरखामी सितं श्वेतं यदातपत्रत्रितयं छत्रत्रयं १८ तस्याऽधरेऽधःप्रदेशे चरन् चलन् पुनर्विलोलानि चपलानि यानि वालव्यजनानि चामराणि तैरभिवीजितः समन्ताद्वीजितः सन् तथा समुत्थो देवमुखात्समुत्पन्नो विष्वक् समन्ताद्यो जयशब्दस्तेन सूचितो २१ ज्ञापितः सन् रत्नचतुष्किकां तृतीयवप्रमध्यस्थमणिवेदिका समागमत् आगच्छति स्म । विष्वगिति । 'परितः सर्वतो विष्वक् समन्ताच २३ समन्तत' इति हैमः॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy