________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
चतुर्थः सर्गः। अथोदियायारुणरोचिषारुणः
सरोजषण्डानि करैर्विकासयन् । दिवस्पृथिव्यावपि रोधमिश्रितै
स्तथानुलिम्पन्निव यावकद्रवैः ॥१॥ यदीयसंसर्गविवर्जितः पुरा द्विजेन्द्रभूतिः श्रुतपारगोऽपि सन् । ६ चकार बालोचितयाशिकक्रियां स वर्द्धमानः प्रतिभांपुनातु मे ॥१॥ ____ अथानन्तरं आरुणरोचिषा रक्तदीप्त्या उपलक्षितः पुनः करैः खकिरणैः सरोजषण्डानि कमलवनानि विकासयन् विकखराणि ९ कुर्वन् अरुणः सूर्यः उदियाय उदयं प्राप्तवान् । किं कुर्वन्निव ?। रोभ्रेण वृक्षविशेषचूर्णेन मिश्रितैर्मिलितैर्यावकद्रवैरलक्तककर्दमैर्दिवस्पृथिव्यावपि आकाशपृथिव्यावपि, तथा तेन प्रकारेण अनुलिम्प-१२ निव लिप्ते कुर्वन्निव । आस्तां ग्रामनगरादिप्रदेश इति अपिशब्दार्थः । उद्गच्छत् सूर्यदीप्तितुल्यतानिष्पादनार्थ रोधमिश्रितैरिति विशेषणम् । उदियायेति । उत्पूर्वादिण् धातोः कर्तरि लिट् । दिव-१५ स्पृथिव्याविति । द्योश्च पृथिवी चेति विग्रहः । 'दिवसश्च पृथिव्याम्' (६।३।३०) इति दिवशब्दस्य दिवसादेशः। अत्र सर्गे प्रायो वंशस्थच्छंदः, तल्लक्षणं च-'जतौ तु वंशस्थमुदीरितं जरौ' १६ इति ॥ १॥ गजेन्द्रगत्या च ततस्त्रिकालवित् सरन्नवस्वर्णसरोजपतिषु । दधत्क्रमाम्भोजयुगं यथाक्रमं चचार चैत्यद्रुमसंमुखं प्रभुः॥२॥२१
ततः सूर्योदयानन्तरं त्रिकालवित्-समुत्पन्नकेवलालोकेन त्रिकालवेत्ता, प्रभुरिपरमेश्वरः सरन्ति चलन्ति नवनवसङ्ख्यानि यानि वर्णसरोजानि २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org