SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीगौतमीयकाव्यं च्छन्ति स्म । च पुनरपरेऽन्ये केचिद्देवाः स्वभर्तुः खखामिनः एव प्रसादनाय प्रसन्नताकरणाय आययुः ॥ ३९ ॥ ३ परेऽन्ये केचिद्देवाः स्वमित्रोंदिताः प्रेरिताः सन्तस्तत्राययुः । तथाऽपरे केचिदेवाः खकीयभक्तितस्तत्राययुः । च पुनः केऽपि देवाः कुतूहलेन कौतुकेन प्रमोदं हर्षमाप्य प्राप्य तत्राऽऽययुः ॥ ४० ॥ ६ ततः किं जातमित्याह इत्थं महोत्सवमयीव महोज्ज्वलाभा देवागमेन दिवसादपि दीप्यमाना। श्रीवर्द्धमानजिनराजविहारपूता __राज्यं प्रदाय दिवसायं निशा पपार ॥४१॥ इत्थममुना प्रकारेण महोत्सवः स्वरूपमस्या इति महोत्सवमयी ३२ इव महोत्सवभूतेव पुनर्देवानामागम आगमनं तेन महोज्वलाऽत्युज्ज्वला आभा प्रभा यस्याः सा तथोक्ताऽत एव दिवसादपि दीप्यते इति दीप्यमाना तथा श्रीवर्द्धमानजिनराजस्य वीरपरमेश्वरस्य विहारेण १५ पूता पवित्रा एवंभूता निशा रात्रिदिवसाय राज्यं प्रदाय दत्वा खयं - 'पपार परिपूर्णतां प्राप्ता । एतेन निशा व्यतीता, दिवसश्च उदित इति भावः । पपारेति । 'पृ पालनपूरणयोः' अस्माकर्तरि लिट् ॥४१॥ १८ इदं वसन्ततिलकावृत्तं । तल्लक्षणं च-'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥ इति भगवदागमनवर्णनो नाम तृतीयः सर्गः ॥३॥ २१ इति स्पष्टम् ॥ ___ इति श्रीगौतमीयप्रबन्धव्याख्याने गौतमीयप्रकाशाभिधाने तृतीयः सर्गः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003042
Book TitleGautamiya Kavyam
Original Sutra AuthorN/A
AuthorRupchandra Gani, Kanakvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy