________________
सकलमनोवाञ्छितपूरकः श्रीशङ्केश्वरपार्श्वनाथो विजयतेतमाम् ।
ॐ अर्हम् श्रेष्ठी देवचंद्र लालभाई जैन पुस्तकोद्धार ग्रन्थाङ्के श्रीमजयानन्दसूरिशिष्यामरचन्द्रेण विरचिता कलिकालसर्वशश्रीहेमचन्द्राचार्यविरचित
श्रीसिद्धहेमचन्द्रशब्दानुशासनबृहद्वृत्त्यवचूर्णिः ।
सर्वज्ञं सर्वदेवार्य, प्रणम्य विवृणोम्यहम् ।
हैमव्याकरणादभ्र-वृत्तिदुर्गपदावलीम् ॥ १॥ तत्राऽऽदौ तावदभिमतदेवतानमस्कारस्य..........................शास्त्रसम्बन्ध. 10 प्रयोजनयोश्च प्रतिपादनाय वृत्तिकारः श्लोकमेकमकार्षीत् । 'प्रणम्य परमात्मानम्' इत्यादि।
इह हि शिष्टाः-कचिदिष्टे वस्तुनि प्रवर्तमानाः शिष्टसमयपरिपालनार्थ प्रारब्धेष्टवस्तुनिर्विघ्नपरिसमाप्त्यर्थ चेष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते । अयमपि च श्रीमदाचार्य-हेमचन्द्रश्चौलुक्यचन्द्रश्रीमत्-कुमारपालभूपालवन्दितपादार- 15 विन्दः शिष्टसमयपरिपालनार्थ प्रारब्धश्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तिनिर्विघ्नपरिसमाप्त्यर्थं च श्लोकस्य पादद्वयेनाऽभिमतदेवतानमस्कारं श्रोतजनप्रवृत्यर्थं च शास्त्रस्य सम्बन्धप्रयोजने प्रत्यपीवदत् (प्रत्यपादयत )।
तत्र 'प्रणम्ये ' ति प्रातः “ केचिद् ” इतिडे-पिपर्तेः, पृणातेर्वा “ खुरक्षुर० " इतिनिपातनात्प्रशब्दः साधुः, तस्माच्च से पि प्रत्ययाश्रितत्वेन बहिरङ्गाऽपि प्रकृत्या- 20
* अस्मिन् ग्रंथे यत्र यत्र...बिन्दुमालाचिहं तत्र तत्र ताडपत्रीयप्रतौ त्रुटितस्थलस्य सूचकं ज्ञेयम् ॥ १ प्रणम्य परमात्मानं, श्रेयः शब्दानुशासनम् । आचार्यहेमचन्द्रेण. स्मृत्वा किश्चित् प्रकाश्यते ॥१॥ २५-१-१७१ । ३ उ. ३९६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org