________________
( १७० )
किं मन्दराद्विशिखरं चलितं कदाचित् ? ॥ १५ ॥ निर्धूमवर्त्तिरपवर्जिततैलपूरः, कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ नास्तं कदाचिडुपयासि न राहुगम्यः, स्पष्टीकरोषि सदसा युगपजगन्ति । नाम्नोधरोदर निरु ६मदाप्रभावः, सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ नित्योदयं दलितमोहमदान्धकारं, गम्यं न राहुवदनस्य न वारिदानाम् । विज्राजते तव मुखाब्जमनल्पकान्ति, विद्योतयजगदपूर्वशशाङ्कविम्बम् ॥ १८ ॥ किं शर्वरीषु शशिनाहि विवस्वता वा ?, युष्मन्मुखेन्डुदलितेषु तमस्सु नाथ ! । निष्पन्नशा लिवनशा लिनि जीवलोके, कार्य कियजलधरे - जलजारनयैः ? ॥ १९ ॥ ज्ञानं यथा त्वयि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org