________________
२४
[ श्रीवीतरागस्तोत्रे स्थलोद्भवाः सुमनःस्रजः-कुसुममालाः सन्त्यज्य-विमुच्य तव निःश्वाससौरभ्यं-वदनामोदं मधुव्रताः-भ्रमरा अनुयान्तिअभिमुखीभवन्तीति तृतीयः ॥ ७॥
वि०-हे जगदप्रमेयमहिमन् ! स्वामिस्तव निःश्वाससौरभ्यं मुखानिल परिमलं मधुव्रताः-षट्पदाः समन्ततोऽनुयान्ति सरभसमनुसरन्ति । यदि पुनस्तत्र प्रसृत्वरपरिमलललितमन्यद्वस्तुजातं भविष्यतीत्याह-सन्त्यज्य विहाय, काः ? सुमनःस्रजः प्रसूनमालाः । किंविशिष्टाः ? जलस्थलसमुद्भूता जले स्थले च प्रादुर्भूताः, तत्र पुण्डरीककमलकुवलयकुमुदाद्याः सलिलसद्भूतास्तिलकचम्पकाशोककेतकबकुलमालतीपाटलाद्याश्च स्थलसमुत्थाः । न च परिमलविशेषविचारे चञ्चरीकेभ्योऽप्यपरे चञ्चुरास्ततस्तेऽपि यदि सुमनःस्रजः सन्त्यज्य त्वन्मुखामोदमनुसरन्ति ततस्तस्यैव समस्तपरिमलाढ्यवस्तुषु परभाग इति । अत्र च यद्यपि प्रथितान्येव कुसुमानि सक्शब्दाभिधेयानि तथाप्यत्यन्तसंहतत्वेन सुमनसां सज इव स्रज इत्यदोषः । चतुर्थं सहजातिशयमाहलोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाहारनीहारौ, गोचरश्चर्मचक्षुषाम् ॥ ८॥ ____ अनु० आपनी भवस्थिति-संसारमा वसवापणुं लोकोत्तर चमत्कार-अपूर्व आश्चर्यने पेदा करनारुं छे, कारण के आपना आहार अने नीहार चर्मचक्षुचाळाओने अगोचर-अदृश्य छे. (८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org