________________
एकोनविंशतिः प्रकाश: ]
२३९ संवर: सत्यशौचक्षमामार्दवादिरूपादेयः-स्वीकार्यों विवेकिभिः ॥ ५॥
वि०-हे भगवन् । आकालमासंसारमतीते वर्तमाने भविप्यति च काले ते तव संबन्धिनी इयं वक्ष्यमाणा आज्ञा शासनम् । किंविशिष्टा ?, हेयोपादेयगोचरा हेयविषया उपादेयविषया च । द्वैविध्यमेव व्यनक्ति-आश्रवेत्यादि, आश्रवत्यनेनात्मनि पापमित्याश्रवः कषायविषयदुष्टयोगप्रमादाविरतिमिथ्यात्वातरौद्रलक्षणः, स च सर्वथा मनोवाकायैः करणकारणानुमतिभिश्च हेयः-परित्याज्यः । तथा पूर्वोदितस्याश्रयस्य विपक्षरूपः क्षमामार्दवार्जवसन्तोषसंयमगुप्तित्रयाप्रमादविरतिसम्यक्त्वशुभध्यानलक्षणः संवर उपादेयः सर्वात्मना स्वीकार्य इति भगवदाज्ञा ॥ ५ ॥ ___ अथ किमर्थमाश्रवत्यागे संवरोपादाने च इयानाग्रह इत्याह
आश्रवो भवहेतुः स्यात्, संवरो मोक्षकारणम्। इतीयमाहती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥६॥
आश्रव ए भवनो हेतु छे अने संवर ए मोक्षनुं कारण छे. श्रीअरिहंत देवोना उपदेशनुं आ संक्षिप्त रहस्य छे, अने बीजो सर्व एनो विस्तार छे. (६)
अव० आश्र०-आश्रयः संसारकारणं स्यात् । संवरो मुक्तिनिमित्तं स्यात् । इतीयमाहती अर्हत्संबन्धिनी मुष्टिः समस्तोपदेशसारसंग्रहरूपा मृलग्रन्थिर्वर्त्तते । यच्चान्यदङ्गोपाङ्गा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org