________________
चतुर्दशः प्रकाशः ]
१९५
मात्मस्वरूपम्, ध्यानं ध्येयविषया एकप्रत्ययसन्ततिः । हे वीतराग !, एतत्त्रयं तव ऐक्यं प्राप्तम्, ध्याता त्वं केवलित्वेन शुक्लध्यानवच्चात्, सिद्धा एव हि ध्येयाः, अतो ध्येयोऽपि त्वं सिद्धरूपत्वात् ध्यानं ज्ञानविशेषः तन्मयत्वात् ध्यानमपि त्वमितिभावः । इति प्रकारेण तव योगमाहात्म्यं परैः परब्रह्मसूक्ष्ममार्गाप्रविष्टहृदयैः कथं श्रद्धीयताम् - मन्यतामिति १ ॥८॥
इति चतुर्दशयोगशुद्धिस्तवप्रकाशस्यावचूर्णिः ।
:
I
वि० - हे योगोपनिषन्निषण्ण !, स्वामिन् !; तव योगमाहात्म्यं परैः कथं श्रद्धीयताम् ?, किमित्याह - इति, इतीति किं ? त्रयमेकास्मतां गतम्, किं तत्रयं ?, ध्याता ध्येयं ध्यानं च, तत्र ध्याता क्षपकश्रेण्यारूढः, ध्येयं षड्जीवनिकायहितं परमात्मतत्त्वम्, ध्यानं चं ध्येयविषया एकप्रत्ययसन्ततिः । एतच्च त्रयमप्यर्वाकपरिपच्यमानध्यानावस्थायां पृथग् भवति । क्रमेण च समुन्मीलिते ध्यानपरिपाके एकात्मतां याति ध्यातृध्याने ध्येये एव निलीयेते तदा चाहं सुखी दुःखी अस्मि नास्मीत्यादि न वेदयते । तदेवं प्रकारं तव योगमाहात्म्यं परैः सूक्ष्माध्यात्मवर्त्मन्यप्रविष्टहृदयैः कथं केन प्रकारेण श्रद्धीयतां तथेतिप्रत्ययपूर्वं हृदि निधीयताम् ?, साच तेषामेव योग्यता; तव तु स्वानुभवसुभगे वस्तुनि किं परप्रत्यायने - नेतिभावः ॥ ८ ॥
इति श्रीवीतरागस्तोत्रे चतुर्दशस्य योगशुद्धिस्तवस्य पदयोजना |
Jain Education International
0940
For Private & Personal Use Only
-
www.jainelibrary.org