________________
१८२
[ श्रीवीतरागस्तोत्रे
वि०-हे विश्वेश ! अहं तव किङ्करोऽस्मि । एतानि चाष्टावपि विभक्त्यन्तपदानि परस्परविरुद्धानीव । कथम् ? इत्याह-किंविशिष्टस्य तव ?, असङ्गस्य जनेशस्य, अतो यः किलासङ्गः स कथं जनेशः ?, भगवांस्तु सर्वसङ्गपरित्यागादसङ्गः परमार्हन्त्यप्रभावादकामोऽपि त्रिभुवनजनसेव्यत्वेन जनेशश्च, तस्य । तथा निर्ममस्य कृपात्मनः, यः किलः निर्ममः स कथं कृपात्मा ?, जगद्गुरुस्तु वीतरागत्वस्वभावादेव ममत्वरहितः, दुष्कर्मनिर्मथ्यमाने च त्रिभुवनजने कृपालुस्तस्य । तथा मध्यस्थस्य जगत्रातुः, यः किल मध्यस्थ उदा. सीनः स कथं जगत्राता ?, स्वामी स्वरक्तद्विष्टत्वेन मध्यस्थोऽपि एकान्तहितधर्मोपदेशदानादान्तरारातित्रस्तस्य जगतस्त्राता । अत एवंविधस्य तवाहं किङ्करः-प्रेष्योऽस्मि । किं विशिष्टः ?, अनङ्कः, यश्च किङ्करः स कथमनको भवति ?, जगद्गुरुस्तु द्विपदादिपरिग्रहरहितो न कमप्यङ्कपातेन स्वीकरोति केवलमहं तत्किङ्करत्वेनैवानङ्कः-कुग्रह. कलङ्करहित इति ।
सप्तम्येकवचनान्तानि विशेषणान्याख्यातिअगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च,त्वय्यात्माऽयं मयार्पितः।७।
नहिं छीपावेला रत्नना निधि समान, कर्मरूपी वाडथी नहि वींटायेला कल्पवृक्ष समान, अने अचिन्तनीय चिन्तामणि रत्न समान एवा आपने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org