________________
: १० :
वितीर्णकलिकालसर्वज्ञबिरुदाः, अनवधचातुर्विद्यविधानख्यात. ब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः; तुच्छं चेदं यद्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः सार्धत्रिकोटिग्रन्थग्रथनासम्भवमिति पाठमात्रग्रन्थग्रथनपटीयस्त्वात्तेषाम् , श्रयत उपलक्ष्यते लेखककुण्डस्थानादिविलोकनेन स्पष्टतरं विदुषामरक्तद्विष्टानां चैतत् , सूरिप्रवराश्चैते कदा कतमं भूमण्डलं मण्डयामासुः, कदा च सूर्यास्तमयेनेव रजनीप्रचारमवाप सूरिवरास्तमयेन कुमतध्वान्तततिविस्तृतिम् , कस्मै च योग्यतमाय पुरुषोत्तमाय विधा. यैनमर्पयामासुः, कश्चाधिकारोऽत्र विद्वद्वन्दवेद्य आत्मकल्याणजनक इति प्रवृत्तायां विचारणायाम् , निर्णीयते तावत्स्पष्टं स्पष्टितत्वात् कुमारपालभूपालः प्राप्नोतु फलमीप्सितमिति श्रीमद्विहि. तादेवैतदीयश्लोकात् कुमारपालक्ष्मापालसमकालीनत्वम् । कुमारपालभूपालानेहाश्च गुर्जरभूपपट्टावल्यादिविलोकनतो निश्चीयते वैक्रमीयद्वादशशतीयो यतो विक्रमसंवनवनवत्यधिकैकादशशतमिते राज्याभिषेकस्त्रिंशदधिकद्वादशशतके च तस्य स्वर्गम इति । तथा च सूरिपादसमयोऽप्येष एव । स्वचरणन्यासपावितभूमण्डलनिर्णयोऽप्यत एव सम्यक्तया जायत एव, यतः पुण्यतमजननिवासतिरस्कृतविबुधालयविबुधालयं श्रीमत्पत्तनपुरमणहिल्लोपपदमभूत्परमाहतानां राजर्षिपदव्यलङ्कतानां श्रीकुमारपालभूपानाम् राज्यस्थानम् , तथा च प्रायेण श्रीमतां गुर्जरधरिव्यामेव विहारस्तत्रत्यागण्यपुण्यपूरप्लावितान्तःकरणानामेव च परस्परविरोध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org