________________
धर्ममार्गकामस्नेहदृष्टिरागमदिरोन्मत्तविहितानेकदुर्गमविघ्नसरिस्लवोत्तरणाधिगतशमसाम्राज्यसाधनसावधानसर्वसङ्गपरित्यागमहाव्रताङ्गीकारादिविधानं स्याद्भवेयुश्चारम्भपरिग्रहासक्तप्रबलमिथ्यात्वमोहमदिराविह्वलान्तःकरणाविरतिराक्षसीजग्धजीवस्वरूपरमणतासत्तत्त्वा एव मुनय इति शासनोन्मूलनमित्यलम् प्रसक्तानुप्रसङ्गेन; विरचिताश्च वीतरागचरणसरोजकिञ्जल्कमधुकराभैः श्रीवस्तुपाल, कुमारपाल, साधुपेथडादिभिरनेके कोशा ज्ञानद्युतिद्युतिकोशा एव भव्याब्जोद्वोधिनो वीतरागमतानूनमहिमासरिच्छ्रोतःप्रभवपृथ्वीधरायमानाः, परश्च हुण्डावसर्पिणीपश्चमा. ररजनीरजनीचरायमाणदुष्टम्लेच्छादिभूमिपैरज्ञानतत्यवष्टब्धहृदयैः येत्याभासैः श्रावकाभासैश्च, तत्त्वातत्त्वविवेचनविमुखता स्वीकृतपुस्तकद्रव्यैर्विनाशिता ज्वालिताः, क्षिप्ता जलेऽतनुप्रवाहे, चिता भित्तौ, हीनाचारै ताश्च हानिम् स्वीयानाचारोपद्रवरक्षणबद्ध. बुद्धिभिस्तथा च शेषाः शेषीभूता एवोद्भावयन्ति शासनोद्भावनामसमप्रभावनाम्, तत्रापि निःस्सत्त्वाद्देशस्य, अतिहसीयस्त्वाद्धर्मबुद्धेः, परायणत्वान्मानगिर्यारोहे, अनवबुद्धत्वात्तत्त्वातत्त्वमार्गस्य, पलायितप्रायत्वाज्ज्ञानस्य व्याप्तत्वादनार्यभाषारुचेः, तुन्दपरिमृजबहुलत्वाल्लोकानाम्, संस्कारहीनत्वान्मतेः, अरुचेः संस्कृत. भाषायाः, पूत्कारप्रायत्वगणनावतारित्वात्प्राकृतग्रन्थानामराजभापात्वादार्यभाषाया अनार्यभाषाया अविरतत्वान्नराणाम् , जेमनवारविस्तारितजयपताकित्वाजनानाम् , वाद्यशब्दवाचालितत्वाद्यशसः, चन्द्रोदयाद्युपकरणकरणमात्रोत्तीर्णमतिप्राग्भारत्वादुचिमताम्, गौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org