________________
:
७ :
तयरत्नत्रयसमाखण्डज्योतिरेण द्वादशाङ्गीतीर्थ सकलसुरासुरनरेश्वरगणोपकारक्षम विद्वद्वन्दनमस्यम् । तच्च यावदपश्चिमपूर्वभृच्छीमद्देवर्द्धिगणिक्षमाश्रमणमपश्चिमानुपमातिशयसाम्राज्यसा.. र्वभौमहिमवदाविर्भूतभागीरथीद्वादशाङ्गीतीर्थान्तरगतमपूर्वचमत्कारचिन्तामणिरोहणायमानमासीदसाधारणमनीषाधारणलब्ध्युपेतमुनिगणधौरेयधृतं पुस्तकगणमृत एव, परं प्रेक्ष्यावसर्पिणीप्रभाव. हृसद्धीगणम् मुनिगणमुपकारकरणपटवः पूज्यपादाः सम्मील्याचार्य पञ्चशती वर्तमानागमरत्नरत्नाकरोपमां सौराष्ट्रराष्ट्रराजमानायां तत्वज्ञानश्रीवलभ्यां वलभ्यामुद्भावयामासुः, शासनं विशसितः प्रबलकर्मबलकेतनं पुस्तकारूढं सिद्धान्ततया सर्वसम्मताविसं. वादमतीयम् ; तदारत एव चासंयममयासंयतसंसारपारावारवर्धनमपि संयमवर्धनतयोपकरोति पुस्तकवृन्दमहोणामहमर्हच्छासननभोङ्गणतारारूपाणां मुनिवराणाम् ; स्पष्टितं च स्पष्टमेतत्स्पष्टतमबोधकिरणयुगप्रधानप्रवरैः श्रीमत्तत्त्वार्थदीपनप्रदीप्रप्रदीपोपमतस्वार्थसार्वदिकसाधुकल्पकल्पनकल्पबृहत्कल्पप्रभृतिषु परमार्थपथप्रधानावधारणैरन्यथा तु नाभविष्यदेव सकलजन्तुजातासाधार• णसातवितरणविज्ञपारमार्थिकतत्त्वप्रधानासाधारणाचरणावगमनज्योतिरन्तरा विवेकचक्षुरुद्घाटनमैदंयुगीनानां दुष्षमासमयोद्भूतानेकवाचालकुतिर्थिकवाचालितदिगन्तरालानुपलभ्यदिगवलोकानाम् , तदन्तरेण च कथङ्कारमभविष्यत्सदाचारसौधसोपानारोहोऽप्यारूढानार्यजनप्रबलासङ्गजातप्रबलानार्याचारप्रभावेऽत्र युगे धर्मजिघृक्षाप्यास्तां तावद्दरादेवानवगतद्रव्यभावानुकम्पाप्रथनप्रत्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org