________________
भूमिका . माणिक्यचन्द्रेतिनामधेयाः के के मुनिवरा अभूवनिति जिज्ञासायामुच्यते-- .. .
श्रीअभयदेवरिपरम्परायां सञ्जातानां श्रीसागरचन्द्रसरीणां विनेयाः श्रीमाणिक्यचन्द्रसूरयः । कुवेरपुराणं, काव्यप्रकाशसङ्केतः श्रीपार्श्वनाथचरित्रं रैसमञ्जरीचरित्रं च कृतय एषां महाशयानामिति केचित् । श्रीसिद्धसेनचरित्रविधायितारः, श्रीशान्तिनाथचरित्रकर्तारोऽलङ्कारशेखररचयितारोऽप्येतनामधेयकाः ।
भक्तामरस्तोत्रटीकायाः संशोधनकर्मणि पञ्च प्रतयः समासादिताः। तासु श्रीगुणाकरसूरिकृतवृत्तिविषयकास्त्रयः प्रतयः। तत्राद्या क-सञ्ज्ञका ६२पत्रात्मिका वैक्रमीये १९५२तमे वर्षे लिखिता नात्यशुद्धा मूलश्लोकरहिता मुनिवर्यश्रीहंसविजयसत्का, द्वितीया ख-सञ्ज्ञका 'अमदावादडहेला'उपाश्रयसत्का ६०पत्रात्मिका प्राचीना शुद्धप्राया लेखनसमयोल्लेखविरहिता, ग-सञ्ज्ञका तृतीया प्रतिस्तु पण्डितहीरालालहंसराजमुद्रापितं 'श्रीभक्तामरस्तोत्र'नामकं सटीकं पुस्तकम् । उपाध्यायश्रीमेघविजयविरचितटीकाया मुद्रणालयपुस्तिका, इतिहासतत्त्वमहोदधिश्रीविजयेन्द्रमूरिसकाशात् प्राप्ता एका प्रतिः १९पत्रात्मिका १७८२तमे वर्षे लिखिताऽअशुद्धा । अस्या आधारेणाकारि मया मुद्रणालयपुस्तिका या आगमोद्धारकजैनाचार्यश्रीआनन्दसागरसूरिभिर्महता प्रयासेन संशोधिता । पृष्ठाष्टकस्य मुद्रणानन्तरं मद्विज्ञप्त्यनुसारेणान्याऽपि प्रतिर्मा प्रेषिता श्रीविजयेन्द्रसरिभिः । अन्या प्रतिः २५पत्रात्मिका पूर्वापेक्षया शुद्धतरा । अस्या आधारेण मया संशोधिता द्वितीयटीकाया अवशिष्टो भागः।।
कल्याणमन्दिरस श्रीकनककुशलकृतवृत्तिसंशोधनार्थ प्रतिचतुष्कमुपयुक्तमभूत् । तत्र क-सञ्ज्ञका मुनिराजश्रीहंसविजयसत्का, ख-ग-सञ्ज्ञके मुनिश्रीचतुरविजयसत्का, घसज्ञका तु सूर्यपुरस्थमोहनलालजीभाण्डागारीया । श्रीमाणिक्यचन्द्रकृतविवृतेः संशोधनकार्ये कस्यचित् प्रतिरेकैव प्रकाशकेन मह्यं दत्ताऽऽसीत्। ___एतद्ग्रन्थस्य सम्पादनकार्ये यैर्महानुभावैरहमुपकृतस्तेषां नामधेयानि धन्यवादपुरस्सरं प्रकटीकरोमि । तावत् द्वितीयटीकाया मुद्रणालयपुस्तिकाऽवलोकनेन अन्यत्र सन्दिग्धस्थलेषु मार्गसूचनेन च्छायोल्लेखकरणेन च साहाय्यप्रदानात् श्रीआनन्दसागरसूरीश्वरैरहमृणीकृतः। किञ्च साहित्यधर्मोद्धारकशास्त्रविशारदस्वर्गस्थजैनाचार्यश्रीविजयधर्मसूरीश्वराणां पट्टधरैरितिहासतत्त्वमहोदधिविरुदसमलङ्कृतैः श्रीविजयेन्द्रसूरिभिरुपकृतोऽस्मि प्रतिद्वयप्रेषणेन । अपरश्च भूमिकाया मुद्रणालयपुस्तिकावलोकनेन कतिचिगन्थनामादिसूचनेन चोपकृतोऽहं श्रीविजयवल्लभसूरीशशिष्यरत्नैर्मुनिश्रीविचक्षणविजयाभिधानैः। १२०तमपर्यन्तानां पृष्ठानां द्वितीय११२६६तमे वैक्रमीयाब्दे व्यरचि ग्रन्थोऽयम् । २ जैनग्रन्थावल्याधारेण । ३ वैक्रमीये १२७६ तमे वर्षे दीवबन्दिरे प्रणीतमिदं चरित्रम् । .
भ. 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org