________________
श्रीमेघविजयवाचकगुम्फितम् ।
२५५ लुप्ताः क्रियास्त्वदुदिताचरणस्य दुष्टै-ालस्वरूपकलिकालकरालयोगात् । येषां पुनर्विमलमार्गमहोदयार्थ, दुष्कर्मणां कुरु पराकरणं गुरुस्त्वम् ॥ १३ ॥ मोहावमोहवशतः शतशोऽन्यदेवा-सेवा(दरा)दनुगुणा विहिता मयाऽन्ते । तैः कापि सिद्धिरभवन्न मनोरथस्य, तच्चेतसः स्थिरदशा त्वयि मे बभूव ॥ १४ ॥ सिद्धः प्रसिद्धमहिमा भगवंस्त्वमेव, देवः सदैव धरणोरगराजसेव्यः । विश्वम्भरः शिवकरः करुणैकवृत्ति-विश्वेशिता जनपितामह एव साक्षात् ॥ १५ ॥ तेजस्तवाव्ययतरं तरसान्तरारि-विस्तारिवर्गहनने तरवारिधारि । तस्मात् त्रयीतनुलसत्तनुरेव भासि शोभातिरेकवशतः शतमन्युमान्य? ॥१६॥ के के त्वया न भगवन्ननुयायिनः स्वां, विश्वाधिपत्यकमलां विमलां न नीताः । इच्छन्ननन्तसुखभोगमहो मनीषी, कस्त्वां विमुञ्चति सुरद्रुमरूपमारात् ॥ १७ ॥ जेता सहस्रमहसां सहसा प्रतापः, कीर्तिश्च कार्तिकनिशाकरकान्तिकान्ता। कान्ताविलासकलना किल वर्द्धमाना, त्वद्ध्यानतस्तनुभृतामचिरादुदेति ॥१८॥ त्वदर्शनानु नृजनुर्विहितं पवित्रं, निष्कम्पसम्पदुदियाय जयाय भोग्या । आनन्दमञ्जुलदशाऽजनि मामकीना, लभ्यं मया परिचयात् परमं पदं तत् ॥ १९ ॥ चित्ताम्बुजन्मनि मम भ्रमरायसे चेद्, भक्तिः परं भगवती मयि सानुरागा। नित्याष्टधाविभवसिद्धिरसप्रसिद्धिः, प्राप्ता मया ननु तदा भगवत्प्रसादात् ॥ २० ॥
श्रीशङ्खश्वरपार्श्वभास्वदुदितज्योतिर्मयः श्रीजिनः
सर्वारिष्टविनाशनः शिवपुरीप्राप्तप्रतिष्ठोदयः। देशाधीश्वरवैरिशल्यमहितः सद्भाग्यलक्ष्म्यै सतां
नूतो वाचकमेघपूर्वविजयाह्वोऽनेन मेरुधुवः ॥ २१ ॥ इति श्रीशिवपुरीदेशनरेशसेव्यश्रीशङ्केश्वरपार्श्वप्रभुस्तवनं सम्पूर्णम् ।। संवत् १७३६ वर्षे चैत्रवदि ५ वार बुधे श्रीसीरोहीनगरमध्ये
लिपीचक्रे ग. उदयरत्नना(नेन) श्रीः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org