________________
घ-परिशिष्टम् ।
श्रीमेघविजयवाचकगुम्फितं ॥ श्रीशङ्केश्वरपार्श्वप्रभुस्तवनम् ॥
ॐ ह्रीं श्रीं क्लीं अहं ऐं नमः सिद्धम् । श्रीसारणाचलमहेश्वरसन्निधाने, सम्पत्करी शिवपुरी नगरी सुरीभिः । तद्राज्यभाजि ननु राजनि वैरिशल्ये, शर्केश्वरो विजयतां जिनपार्श्वनाथः ॥१॥ स्पष्टीबभूव भविनां भुवि भागधेयात् , ध्येयातिशायिसुखदायिसुनामधेयः। शह्येश्वरस्तनुमयूखदिनेश्वरोऽर्हन , नेत्रामृताञ्जनजगत्प्रियरूपधेयः ॥२॥ ॐकार एष सविशेषविधेर्विधाने, श्वेतातपत्ररुचिसम्भृतचारुमूर्तिः। देवासुरोरगनरेश्वरसेवितांही, राज्यश्रियं त्रिभुवनस्य दधाति पार्श्वः ॥ ३॥ नैतादृशस्त्रिभुवने जनताभिनेता, योगीश्वरोऽपि विबुधाधिपतेः श्रियाऽऽन्यः । शैवस्थितं वपुषि दर्शयते जिनोऽपि, ब्रह्मक्रियापरिणतः स्वत एव भास्वान् ॥४॥ राजा द्विभागमदधाद् विविधार्थबोधात् , क्रोधानुरोधनधियो विरराम कामम् । माङ्गल्यमाल्यपरिपूजनया प्रसादी, शवेश्वरः प्रभुरसौ सुरसौख्यकारी ॥५॥ त्वन्नाम्नि धानि भगवन् ! हरि-शङ्कराद्याः, स्वांशं दधुर्मधुरपूजनहेतवोऽमी । तल्लेभिरे फलमलं विमलं त्वदीयं, ते विश्वपूज्यपदसम्पदमङ्गनाढ्याः ॥ ६॥ ये चक्रिशक्रकमलापरिभोगमन्ना-भूता भवन्त्यभिनवैविभवैर्मनुष्याः। त्वत्पादपद्मरजसामनुशीलनस्य, माहात्म्यमद्भुतमिदं जगति प्रतीमः ॥७॥ नामानि यानि जगदुद्धरणाय लोके, गेयानि तानि किल निश्चिनुमस्तवैव । पर्यायवृत्तिविधया सुधया विलिप्ता, भावा भवन्ति सरसाः स्वरसाद् यथैव ॥ ८॥ भाग्योदयेन भविनां भगवंस्त्वदीयं, सन्दशेनं भवति दुस्तमसां भिदायै। भानोर्मरीचिनिचये स्फुरिते समन्तात् , किंवान नश्यति तमिस्रविमिश्रितो वा ? ॥९॥ त्वं नायकस्त्वमसि सार्वजनीनबन्धु-स्त्वं तारकः सकलदुर्जनवारकस्त्वम् । नीतस्त्वयाऽहमियतीमिह वन्द्यभूमि, तद् देहि सम्प्रति पदं परमं स्वकीयम् ॥१०॥ सिद्धेर्विधास्त्वदभिधा विविधानुभावा-लक्ष्मीस्त्वदीयपदसेवनयाऽवशेव । सम्प्राप्यते तनुभृता निभृता नितान्तं कीर्तिस्तदेकसुररत्नमयस्त्वमत्र ॥११॥ नीताः क्षयं रिपुजना जनपूजनाऽपि, सम्प्रापिता मयि कलाः सकलाः प(फ?)लान्याः। सद्योऽनवद्य! सुरवन्ध ! विभिद्य माधत्-कर्माणि देहि परमं पदमीश! मह्यम् ॥१२॥ , 'विमिश्रितो:' 'विमिभितोवा' वा इति स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org