________________
श्रीमानतुङ्गसूरिप्रणीतम् ।
२३५ रायभय जक्ख-रक्खस-कुसुमिण-दुस्सउण-रिक्खपीडासु । संझासु दोसु पंथे, उवसग्गे तह य रयणीसु ॥ जो पढइ जो अ निसुणइ, ताणं कइणो य 'माणतुंग'स्स । 'पासो' पावं पसमेउ, सयलभुवणच्चियचलणो ॥ १९-२१॥-विशेषकम् [एवं महाभयहरं पार्श्वजिनेन्द्रस्य संस्तवमुदारम् । भविकजनानन्दकरं कल्याणपरम्परानिधानम् ॥ राजभय-यक्ष-राक्षस-कुखम-दुःशकुन-ऋक्षपीडासु । सन्ध्ययोः द्वयोः पथि उपसर्गे तथा च रजनीषु ॥ यः पठति यश्च निशृणोति तयोः कवेश्च मानतुङ्गस्य ।
पार्श्वः पापं प्रशमयतु सकलभुवनार्चितचरणः ॥] एवम्-उक्तप्रकारेण पार्श्वजिनेन्द्रस्य संस्तवं वक्ष्यमाणक्रियायाः कर्मतापन्नम् । किंविधम् ? महाभयं हरतीति तम् । अनेन स्तवस्य सान्वयं नाम ख्यापितम्, अनर्थप्रतिघातित्वात् । अर्थप्रापणपक्षे च पूर्ववत् । महच्चाभयं च तेषां गृहं उदारं शब्दतोऽर्थतश्च, भ. व्यजनानन्दकरं भव्याः-सिद्धिगमनयोग्यास्ते चाव्यवहारिकनिगोदा अपि भवेयुः, अतस्तद्व्यवच्छेदार्थमाह-जायन्ते व्यवहारराशाविति (जनास्तेषां आनन्दं-सुखं करोतीति भविकजनानन्दकरस्तं, पुनः कीदृशं ?)। कल्याणपरम्पराया निधानमिव । अथवा अन्यथैवोत्तरार्धमाह-व्याख्या भवियजणाण कल्लाणपरं ति भव्यजनानां कल्याणानि पिपतीत्यचि कल्याणपरं कल्याणैकनिष्ठं वा 'अंदयरं परनिहाणं'ति 'अंद बन्धने' (१) अन्दनं अन्दोबन्धनं तत् करोतीत्येवंशीलं अन्दकरम् । केषाम् ? परेषां-शत्रूणां निभानि-कपटान्युच्चाटनादीनि तेषां, परकृतक्षुद्रकर्मणां स्तम्भकारकमित्यर्थः ॥ 'रायभय' राजभयं च यक्षाश्च राक्षसाश्च कुस्वप्नाश्च दुष्टशकुनानि ऋक्षाणि च-नक्षत्राणि राशयो वा तेषां पीडास्तासु । बहुवचनं प्रत्येकं पीडायोजनार्थम् । ऋक्षपीडा च वस्तुतो ग्रहपीडैव । सूर्योदयो हि ग्रहा अश्विन्यादिनक्षत्रेष्वेव चरिष्णवोऽशुभगोचरस्थाः पीडायै कल्पन्ते, न स्वातन्येण । अथवाऽकारप्रश्लेषादरयः-शत्रवः तेषां पीडा, तथा खपीडा खशब्देन खस्था ग्रहाः व्यपदिश्यन्ते तेषां पीडेति पृथक् योज्यम् । तथा सन्ध्ययोः-प्रातरपराह्नसन्धिवेलयोः पथेअरण्यादिमार्गे उपसर्गे-दिव्यमानुषादौ, तथा चेति समुच्चये रजनीषु ता हि भयावहाः
, 'महाऽभयगृहं' इत्यपि सङ्गच्छते। २ शकुना-रि-खपीडासु' इत्यपि सम्भवति । ३ 'सावयवं' इति क-पाठश्चिन्तनीयः। ४ 'स्तवववशन्दार्थ' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org