________________
श्रीसिद्धसेनर्दिवाकरकृतम्
(सिद्ध०१-३-५०) इति दस्य तत्वे संहितायां उत्तरन्तः इति जातम् । एतद्शब्दः प्रथमा सिः 'आ द्वेरः' (सिद्ध०२-१-४१) इति दस्य अकारः पूर्वाकारलोपश्च, 'तः सौ सः' (सिद्ध०२-१-४२) इति तस्य सः सकारस्य षकारश्च, 'एतदश्च व्यञ्जनेऽनग्नञ् समासे' (सिद्ध०१-३-४६) इति सूत्रेण सेर्लोपे एषः इति सिद्धम् । अन्तर् गतः अन्तर्गतस्तस्य । अन्तर् इति अव्ययम् । मरुत्शब्दः डसि मरुतः इति सिद्धम् । तशब्दस्य एषवत् प्रक्रियायां सः इति जातं, परं सकारस्य पत्वं न ॥ इति दशमकाव्यार्थः ॥१०॥
He suggests the advantage of constant contemplation about God.
Oh Jina! How art Thou the saviour of mundane beings when on the contrary ) they themselves carry Thee in their hearts while crossing ( the ocean of existence ) ? Or indeed, that a leather bag ( for holding water ) floats in water, is certainly the effect of the air inside it. (10)
अथ रागद्वेषयोः सद्भावे पारमार्थिकी देवस्य स्तोतव्यता न स्यादित्यतो रागद्वेषमूलयोः कामक्रोधयोः क्षयं जिनेश्वरकृतं प्रतिपादयिषुस्तदन्त(?)रागद्वेषक्षयसमुद्भूतं जिनमौढिमानं च विवक्षुः काव्यमेकमाह
यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः
सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन
___पीतं न किं तदपि दुर्धरवाडवेन ? ॥ ११ ॥ क० वृ०-यस्मिन् हरप्रभृतयोऽपि हतप्रभावा जाताः । कर्चुक्तिः । 'यस्मिन्' कन्दकामविषये । 'हरप्रभृतयोऽपि' हर-हरि-विरश्चिप्रमुखा अपि देवाः। हरः प्रभृतिर्येषु ते हरप्रभृतयः 'बहुव्रीहिः' । 'हतप्रभावाः' गतानुभावाः। कामेन हरादयोऽपि देवा विजिता इत्यर्थः । हतः प्रभावो येषां ते हतप्रभावाः 'बहुव्रीहिः' । 'जाताः' बभूवुः । यत्तदोर्नित्याभिसम्बन्धात् सोऽपि रतिपतिस्त्वया क्षणेन क्षपितः इत्यन्वयः। कर्मोक्तिः। सोऽपि विजितहराद्यनेकदेवोऽपि रतिपतिः-कामो रतेः पतिः रतिपतिः 'तत्पुरुषः' त्वया क्षपितः-क्षय नीतः। 'क्षणेन' स्तोककालेन । उक्तार्थसमर्थनाय दृष्टान्तमाह-अथ येन पयसा हुतभुजो 'विध्यापिताः । पयसेति कर्तृपदम् । हुतभुज इति कर्मपदम् । कर्मोक्तिः। अथशब्दोऽन्वादेशे । किञ्चिदुक्ते पुनर्विशेषकथनमन्वादेशः । येन । 'पयसा' पानीयेन । 'हुतभुजः' अग्नयः । हुतं भुञ्जन्ति इति हुतभुजः 'तत्पुरुषः' । 'विध्यापिताः' निर्वाणं प्रापिताः । उहलाव्या इति लोकोक्तिः। दुधरवाडवेन तदपि किं न पीतम् ? अपि तु पीतम् । कमोक्तिः। तदपि पयो दुर्धरवाडवेन-उद्धतवडवाग्निना दुर्धरश्चासौ बाडवश्च दुर्धरवाडवस्तेन 'कर्म१ 'काव्यार्थदिक्' इति ख-पाठः । २ 'वध्यापिता' इति ग-ध-पाठः । भ. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org