________________
१६८
कल्याणमन्दिरस्तोत्रम् क० वृ०-हे जिन! त्वं कथं भविनां तारकः, भवसीति शेषः । कनुक्तिः । संसारसागरात् तारयतीति तारकः-तारयिता 'भविनां'-संसारिणां भवो विद्यते येषां ते भविनस्तेषां जन्तूनां कथं भवसि यद्-यस्मात् त एव भविनोऽर्थात् संसाराब्धिमुत्तरन्तस्त्वां हृदयेनचित्तेनोद्वहन्ति । कत्रुक्तिः। यदि त्वं प्राणिभिः स्वहृदयेनोह्यसे, तर्हि त्वं कथं तारकोऽभिधीयसे? । वहनीयस्य तारकत्वं न स्यादिति भावार्थः । यद्वा-अथवा घटतेऽयमर्थः । कथं घटते इति चेदुच्यते । नूनमेष दृतिर्यजलं तरति । कवुक्तिः। 'नूनं' निश्चयेन। 'एषः सकललोकप्रत्यक्षः 'दृतिः' दइवड उइति नाम्ना लोकप्रसिद्धो यत् जलं-नद्यादिनीरं तरति किलेति सत्ये सोऽनुभावोऽन्तर्गतस्य मरुतः, वर्तते इति शेषः। 'अन्तर्गतस्य' मध्यगतस्य । अन्तर् गतः अन्तर्गतस्तस्य । 'मरुतः' वायोः । सोऽनुभावः-प्रभावोऽस्ति । न पुनदृतेरयम्-अत्रो. पनयो यथा-दृतेस्तारको वायुः प्रोच्यते, तथा त्वमपि भव्यहृदयगतोऽपि तत्तारणात् तारकः प्रोच्यसे । इति दशमवृत्तार्थः॥ १०॥
मा०वि०-त्वं तारको जिनेति । हे जिन! त्वं भविना-संसारिणां कथं तारकः । 'वर्तसे' इति क्रियापदम् । कः कर्ता? 'त्वम्' । किंलक्षणः? 'तारकः' । केषाम् ? 'भविनाम्' । कथम् ? 'कथम् । ते एव भविनः त्वां यद्-यस्मात् कारणात् उत्तरन्तः अर्थात् संसारसमुद्रं हृदयेन उद्वहन्ति । 'उद्वहन्ति' इति क्रियापदम् । के कर्तारः? 'ते' । कथम् ? 'एव' । कं कर्मतापन्नम् ? 'त्वाम्' । केन ? 'हृदयेन' । किं कुर्वन्तः? 'उत्तरन्तः' । कथम्? 'यत्' । यो यं उद्वहति स तस्य तारक इति प्रकटं, प्रत्युत ते भविनस्तव तारकाः त्वं भविनां तारकः कथमिति भावः। यद्वा इति पक्षान्तरे । दृतिः-प्रसेवकः यत् जलं प्रति तरति । 'तरति' इति क्रियापदम् । कः कर्ता? 'दृतिः'। किम् ? 'जलम्' । एष स नूनंनिश्चितं अन्तर्गतस्य-मध्यगतस्य मरुतो-वायोः किल इति सत्ये अनुभावो-महिमा वर्तते। 'वर्तते' इति क्रियापदम् । कः कर्ता ? 'अनुभावः' । कः? 'एषः' । कः? 'सः' । कस्य ? 'मरुतः' । कीदृशस्य ? 'अन्तर्गतस्य' । कथम् ? 'नूनम्' । कथम् ? 'किल' ॥
तारयतीति तारकः । 'तृ प्लवनतरणयोः' (सिद्ध० धा०) तृधातुः णिग्प्रत्ययः ‘णक तृचौ' (सिद्ध०५-१-४८) णकप्रत्ययः 'वृद्धि' (सिद्ध०३-३-१) 'णेरनिटि' (सिद्ध० ४-३-८३) णिग्लोपः संहितायां सौ तारक इति। भवः-संसारोऽस्ति येषां ते भविनस्तेषाम् । युष्मशब्दः द्वितीया अम् 'अमौ मः' (सिद्ध० २-१-१६) इति अमो म् आदेशः, 'त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् (सिद्ध०२-१-११) इति युष्म इत्यवयवस्य त्व आदेशः, 'युष्मदस्मदोः' (सिद्ध० २-१-६) इति दकारस्य अकारः त्वस्य अलोपे संहितायां त्वामिति । उत्पूर्वो 'वहीं प्रापणे' (सिद्ध० धा०) वहधातुः 'वर्तमाना अन्ति' (सिद्ध० ३-३-६) शव अलोपे संहितायां उद्वहन्तीति जातम् । उत्पूर्वः 'तू प्लवनतरणयोः तृधातुः शतृप्रत्ययः शव् ‘गुणा०' (सिद्ध०३-३-२)प्रथमा जस् नोऽन्तः पूर्वाकारलोपः 'अघोषे प्रथमोऽशिटः'
१ 'भविनां कथं' इति ख-पाठः। २'भवतो' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org