________________
१६६
कल्याणमन्दिरस्तोत्रम् इति सूत्रेण ओत्त्वे 'एदोद्भ्यां उसिडसो रः' (सिद्ध० १-४-३५) इति डन्सो रत्वे रस्य विसर्गत्वे 'जन्तोः' इति सिद्धम् । निबिडा अपि इत्यत्र 'रोयः' (सिद्ध०१-३-२६) इति रस्य यत्वे 'स्वरे वा' (सिद्ध० १-३-२४) इति लुप्ते सन्ध्यभावे 'निबिडा अपि' इति जातम् । कर्मणां बन्धाः कर्मबन्धाः। भुजङ्गममया इत्यत्र प्रकृत्यर्थे मयट्प्रत्ययः जसि भुजङ्गममयाः। मध्यश्चासौ भागश्च मध्यभागस्तम् । अभि-आङ्पूर्वो गम्धातुः तप्रत्ययः 'यमिरमि०' (सिद्ध०४-२-५५) इति सूत्रेण मूलोपः, संहितायां सप्तम्यां 'अभ्यागते' इति जातम् । शिखण्ड:-कलापः सोऽस्यास्तीति शिखण्डी । वनस्य शिखण्डी वनशिखण्डी तस्मिन् वनशिखण्डिनि । इन्प्रत्यये पूर्वाकारलोपे संहितायां सप्तम्यां सिद्धिः। इत्यष्टमकाव्यार्थः॥८॥
He mentions the result of contemplating God.
Oh Lord! when Thou art enshrined in the heart by a living being, hiz firm fetters of Karmans, however tight they may be, become certainly loose within a moment like the serpent-bands of a sandal tree, immediately when a wild peacock arrives at its centre. (8)
xxx मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !
रौद्र्रुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोखामिनि स्फुरिततेजसि दृष्टमात्रे
चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ क. वृ०-हे जिनेन्द्र ! त्वयि वीक्षितेऽपि सहसा रौद्रैरुपद्रवशतैर्मनुजा मुच्यन्त एवेत्यन्वयः । कर्मोक्तिः । हे 'जिनेन्द्र!' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनम् । 'त्वयि' भवति । 'वीक्षितेऽपि' दृष्टमात्रेऽपि । 'सहसा' शीघ्रम् । 'रौद्रैः' भयङ्करैः । 'उपद्रवशतैः' बहुवचनाद् बहुभिः । उपद्रवाणां शतान्युपद्रवशतानि तैः 'तत्पुरुषः' । 'मनुजाः' नराः। 'मुच्यन्ते एव' त्यज्यन्त एव । त्वय्यालोकिते बहून्युपद्रवशतानि मनुजान् त्यक्त्वा नश्यन्त्येवेति भावः । अत्र दृष्टान्तमाह-इव-यथा स्फुरिततेजसि गोस्वामिनि दृष्टमात्रे प्रपलायमानैश्चौरैराशु पशवो मुच्यन्ते इत्यन्वयः। कर्मोक्तिः । 'स्फुरिततेजसि' स्फुरितप्रत्यूपसमये । स्फुरितं जगत्प्रकाशतया विस्तृतं तेजो-विभा यस्य स तस्मिन् । स्फुरितं तेजो यस्य स स्फुरिततेजास्तस्मिन् 'बहुव्रीहिः' । 'गोस्वामिनि' किरणनाथे रवौ । गवां स्वामी गोस्वामी तस्मिन् 'तत्पुरुषः । अथच 'गोस्वामिनि' भूमिपाले । गोः-पृथिव्याः स्वामी गोस्वामी तस्मिन् 'तत्पुरुषः । अथवा 'गोस्वामिनि' गोपाले। 'दृष्टमात्रे' सति आलोकितमात्रे । केवलं दृष्टो दृष्टमात्रस्तस्मिन् सति । ('प्रपलायमानैः') प्रकर्षेण पलायमानैः पृष्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org