________________
श्री सिद्धसेनदिवाकरकृतम्
१६५
इत्येवंशील हृद्वतीं तस्मिन् ' तत्पुरुषः' । 'जन्तो:' जीवस्य । 'कर्मबन्धाः ' जीवप्रदेशैः सह कर्माणूनां वहन्ययःपिण्डन्यायेनान्योन्यानुगमनस्वरूपाः कर्मबन्धाः । कर्मणां बन्धाः कर्मबन्धाः 'तत्पुरुषः' । 'निबिडा अपि' सुदृढा अपि । 'क्षणेन' अचिरात् । 'शिथिलीभवन्ति' अशिथिलाः शिथिला भवन्ति इति शिथिलीभवन्ति । निबिडबन्धभावं विहाय शिथिलीभावं भजन्ते ( इत्यर्थः) । उक्तमर्थं दृष्टान्तेन दृढयति - इव - यथा वनशिखण्डिनि मध्यभागमभ्यागते सद्यश्चन्दनस्य भुजङ्गममया बन्धाः शिथिलीभवन्ति । कर्बुक्तिः । ‘वनशिखण्डिनि' वनमयूरे । शिखण्डाः - पिच्छानि सन्त्यस्येति शिखण्डी, वनस्य शिखण्डी वनशिखण्डी तस्मिन् 'तत्पुरुषः' । 'मध्यभागं' मध्येनोपलक्षितो भागो मध्यभागस्तं ' तत्पुरुषः' मध्यमपदलोपी अर्थाच्चन्दनशाखिनो मध्यदेशं समुपागते सद्यः- तत्कालं चन्दनस्य - चन्दनद्रुमस्य 'भुजङ्गममयाः ' भुजङ्गाः प्रचुरा येषु ते भुजङ्गममयाः बन्धाः शाखासु कुण्डलितर्सर्पशरीरवेष्टा इव - यथा शिथिलीभवन्ति । इत्यष्टमवृत्तार्थः ॥ ८ ॥
मा०वि० - हृद्वर्तिनीति । हे विभो ! त्वयि हृद्वर्तिनि सति जन्तोः - जीवस्य निबिडा अपि कर्मबन्धाः शिथिलीभवन्ति । " शिथिलीभवन्ति' इति क्रियापदम् | के कर्तारः ? 'कर्मबन्धाः' । कस्य ? 'जन्तो:' । केन ? 'क्षणेन' । कस्मिन् सति ? ' त्वयि' सति । त्वयि किंलक्षणे ? हृदि वर्तत इत्येवंशीलो हृद्वर्ती तस्मिन् । कर्मबन्धाः किंलक्षणाः ? 'निबिडा : ' घनाः । अमुमेवार्थं दृष्टान्तेनोपस्कुरुते - इव - यथा चन्दनस्य - चन्दनतरोः भुजङ्गममया बन्धाः सद्यः - शीघ्रं वन शिखण्डिनि - वनमयूरे मध्यभागं अर्थाद् वनमध्यभागं अभ्यागते सति शिथिलीभवन्ति । 'शिथिलीभवन्ति' इति क्रियापदम् । के कर्तारः ? ' बन्धाः ' । बन्धाः किंलक्षणाः? भुजङ्गमैः प्रकृताः 'भुजङ्गममयाः' । कस्य ? ' चन्दनस्य' । कस्मिन् सति ? 'वन शिखण्डिनि' सति । किंलक्षणे ? 'अभ्यागते' समागते । कं कर्मतापन्नम् ? 'मध्यभा गम्' । कथम् ? 'सद्यः शीघ्रम् ॥
हृद्पूर्वी 'वृतू वर्तने' (सिद्ध० धा० ) वृत्धातुः शीलार्थे इन् संहितायां वर्तिन् इति जातं, सप्तम्यां ङौ वर्तिनि इति सिद्धम् । युष्मद्शब्दः सप्तमी ङौ युष्म् अद् इति विश्लेषः 'त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ' ( सिद्ध० २ - १ - ११ ) इति सूत्रेण युम् इत्यस्य त्व इत्यादेशः, 'टाड्योसि यः' ( सिद्ध० २ - १ - ७ ) इति दस्य यकारः 'लुगस्यादेत्यपदे' (सिद्ध० २ - १ - ११३ ) त्वस्याकारलोपे संहितायां त्वयीति सिद्धम् । विभुशब्दः सम्बोधने सि: ' ह्रस्वस्य गुणः' (सिद्ध० १ - ४ - ४१ ) इति सिना सह ओवे विभो ! इति जातम् । अशिथिलाः शिथिला भवन्ति इति शिथिलीभवन्ति । शिथिल - शब्दः अभूततद्भावे विप्रत्ययः 'ईशच्वाववर्णस्यानव्ययस्य' (सिद्ध० ४-३ - १११ ) इति सूत्रेण अकारस्य ईकारः, च्चेर्लोपे शिथिली इति जातं, भवन्तीति पूर्ववत्, शिथिलीभवन्तीति अखण्डं पदं ज्ञेयम् । जन्तुशब्दः षष्ठी ङसि ' ङित्यदिति' ( सिद्ध ० १ - ४ - २३ ) १ 'सर्ववेष्टाका' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org