________________
१६३
श्रीसिद्धसेनदिवाकरकृतम् आस्तामचिन्त्यमहिमा जिन ! संस्तवस्ते
नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान् निदाघे
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ क० वृ० हे जिन! ते-तव संस्तवः आस्तामित्यन्वयः। कर्चुक्तिः। संस्तवः' स्तोत्रम् । संस्तवः कथम्भूतः? 'अचिन्त्यमहिमा' अचिन्तनीयमाहात्म्यः । चिन्तनाहश्चिन्त्यः, न चिन्त्योऽचिन्त्यः, महतो भावो महिमा, अचिन्त्यो महिमा यस्व सः 'बहुव्रीहिः' । 'आस्तां' दूरे तिष्ठतु । भवतो नामापि भवतो जगन्ति पाति । कवुक्तिः। हे देव! । 'भवतः' तव । 'नामापि' श्रीपार्श्व इत्यभिधानमपि । 'भवतः' भवात्-संसारात् । 'जगन्ति' विश्वानि । 'पाति' रक्षति । दृष्टान्तमाह-निदाघे पद्मसरसोऽनिलोऽपि तीव्रातपोपहतपान्थजनान् प्रीणातीत्यन्वयः। कर्चुक्तिः । 'प्रीणाति' इति क्रियापदम् । कः कर्ता ? 'अनिल' वायुः। 'प्रीणाति' प्रीतिमुत्पादयति । कान् कर्मतापन्नान् ? 'तीव्रातपोपहतपान्थजनान्' तीव्र आतपस्तेनोपहता-व्याकुलीकृता ये पान्थजनास्तान् । पथि गच्छन्तीति पान्थाः, पान्थाश्च ते जनाश्च पान्थजनाः 'कर्मधारयः', तीव्रश्वासावातपश्च तीव्रातपः 'कर्मधारयः', तीव्रातपेनोपहतास्तीव्रातपोपहताः 'तत्पुरुषः', तीव्रातपोपहताश्च ते पान्थजनाश्च तीव्रातपोपहतपान्थजनास्तान् 'कर्मधारयः' । 'निदाघे' ग्रीष्मे । अनिलः किंलक्षणः? 'सरसः सूक्ष्मजलशीकरपरिगत इतियावत् । सह रसेन-जलेन वर्तते यः सः 'बहुव्रीहिः' । कस्य ? 'पद्मसरसः' पद्मरुपलक्षितं सरः पद्मसरस्तस्य 'मध्यमपदलोपी तत्पुरुषः । आस्तां स्वच्छं स्वादु शीतलं जलं, पद्मसरसोऽनिलोऽपि पान्थनरान् प्रीणाति । दृष्टान्तोपनयोऽत्राग्रेऽपि च सर्वत्र स्वयं भावनीयः । इति सप्तमवृत्तार्थः ॥७॥
मा०वि०-आस्तामिति । हे जिन! ते-तव संस्तव आस्तां-तिष्ठतु । 'आस्ताम्' इति क्रियापदम् । कः कर्ता ? 'संस्तवः' । कस्य? 'ते' । संस्तवः किंलक्षणः? अचिन्त्यःअचिन्तनीयो महिमा यस्य सः 'अचिन्त्यमहिमा' । भवतः-तव भवतः-संसारात् जगन्तिविश्वानि नामापि-अभिधानमपि पाति-रक्षति । 'पाति' इति क्रियापदम् । किं कर्तृ? 'नाम' । कथम्? 'अपि' । कस्य ? 'भवतः' । कस्मात् ? 'भवतः' । कानि कर्मतापन्नानि ? 'जगन्ति' प्रति । उक्तमर्थ दृष्टान्तेन दृढयति-पद्मसरः आस्तां-तिष्ठतु, पद्मसरसःपद्मतडाकस्य सरसः अनिलो-वायुरपि तीव्रातपोपहतपान्थजनान् प्रति प्रीणाति-सन्तुष्टिं विधत्ते । 'प्रीणाति' इति क्रियापदम् । कः कता ? 'अनिलः' । किंलक्षणः ? 'सरसः' । कस्य? 'पद्मसरसः' । कान् प्रति ? तीव्रण आतपेन उपहता ये पान्थजनास्तान् प्रति । कस्मिन् ? 'निदाघे ग्रीष्मतौं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org