________________
१६२
कल्याणमन्दिरस्तोत्रम् 'कर्मधारयः' । 'जल्पन्ति' वदन्ति । नात्रायुक्तं किञ्चित् । यथा पक्षिणः स्वभाषया भाषन्ते, तथाऽहमपि प्रवृत्तोऽस्मीति नाविमृष्टकारिता । इति षष्ठवृत्तार्थः॥६॥
मा०वि०-ये योगिनामपीति । हे ईश! हे स्वामिन् ! ये तव गुणा योगिनामपि वक्तुं न यान्ति-ये गुणा योगिनामपि वक्तुं योग्या न भवन्ति, गुणानामानन्त्याद् वा पृथक्कर्तृणामेकजिह्वायत्त्वात् सङ्ख्यातायुष्कत्वाचेति भावः । 'यान्ति' इति क्रियापदम् । कथम् ? 'न' । के कर्तारः ? 'गुणाः' । गुणाः के ? 'ये' । केषाम् ? 'योगिनाम्' । कस्य? 'तव' । किं कर्तुम् ? 'वक्तुम् । तेषु गुणेषु ममावकाशः कथं भवतु? । 'भवतु' इति क्रियापदम् । कः कर्ता ? 'अवकाशः' । केषु? 'तेषु' । किं कर्तुम् ? 'वक्तुम्' । डमरुकमणिन्यायेन 'वक्तुं' इति क्रियापदं द्वयोरप्युक्त्योर्योज्यम्, अन्यथा वाक्यासङ्गतिः स्यात् । तत्-तस्मात् कारणात् इयं असमीक्षितकारिता जाता, अविचारितकर्तृत्वं जातमिति भावः । 'जाता' इति क्रियापदम् । कः कतो? 'असमीक्षितकारिता' । कथम् ? 'एवम्' । वा इति पक्षान्तरे । यथा असमीक्षितकारिता न भवति इति पक्षान्तरे । नन्विति वितर्के । पक्षिणोऽपि निजगिरा-निजवाण्या जल्पन्ति-वदन्ति । 'जल्पन्ति' इति क्रियापदम् । के कर्तारः? 'पक्षिणः' । कथम् ? 'अपि' । कया? 'निजगिरा॥
यशब्दः प्रथमाबहुवचनं जस् 'आ द्वेरः' (सिद्ध०२-१-४१) इति दकारस्य अकारः, 'लुगस्यादेत्यपदे' (सिद्ध०२-१-११३) अकारलोपः अकारसंहिता 'जस इ.' (सिद्ध० १-४-९) अवर्णेन सह एत्वे ये इति सिद्धम् । 'यांक प्रापणे' (सिद्ध० धा०) याधातुः 'वर्तमाना अन्ति' (सिद्ध०३-३-६) संहिता यान्तीति सिद्धम् । 'वचं [परिभाषणे' (सिद्ध० धा०) वच् (धातुः) तुम्प्रत्ययः 'चजः कगम्' (सिद्ध०२-१-८६) सिलोपः वक्तुं इति सिद्धम् । भूधातुः 'पञ्चमी तुव्' (सिद्ध०३-३-८) 'गुणः०' (सिद्ध०३-३-२) अव संहितायां भवतु इति जातम् । तद्शब्दः सुपि 'आ द्वेरः', 'लुगस्यादेत्यपदे', 'एद् बहुसभोसि' (सिद्ध० १-४-४) तेष्विति सिद्धम् । 'जनैचि प्रादुर्भावे' (सिद्ध० धा०)। जन्धातुः क्तप्रत्ययः 'आः खनिसनिजनः' (सिद्ध०४-२-६०) इति सूत्रेण नस्य आत्वं स्त्रीलिङ्गत्वादाप् सेर्लोपश्च। समीक्षितं करोतीति समीक्षितकारी, समीक्षितकारिणो भावः समीक्षितकारिता, न समीक्षितकारिता असमीक्षितकारिता, अविचारितकारितेत्यर्थः । जल्पधातुः 'वर्तमाना अन्ति' शव् 'लुगस्यादेत्यपदे' जल्पन्तीति सिद्धम् । निजस्य गीस्तया निजगिरा । पक्षौ विद्येते येषां ते पक्षिणः, पक्षशब्दः, अस्त्यर्थे इन्प्रत्ययः, पक्षस्य अकारलोपः पक्षिन् इति जातं, प्रथमा जसि नस्य णत्वे पक्षिण इति सिद्धम् । इति षष्ठकाव्यार्थः ॥ ६॥
Oh Lord! whence can it be within my scope to describe Thy merits, when even the masterly saints fail to do so ? Therefore, this attempt of mine is a thou. ghtless act; or why, even birds do speak in their own tongue. (6)
१ 'पष्ठवृत्तभावार्थः' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org