________________
श्रीकनककुशलगणिविरचिता
१४७ 'तत्पुरुषः' । पुनः किंलक्षणं फणिनम् ? । 'उत्फणं' ऊवीकृतस्फटम् । उद्-ऊर्ध्व फणा यस्य स उत्फणस्तं 'बहुव्रीहिः' । फणिनं किं कुर्वन्तम् ? 'आपतन्तं' सन्मुखं धावन्तम् । इति सप्तत्रिंशत्तमवृत्तार्थः ॥ ३७॥
अथ रणभयं निरस्यन्नाह-(वल्गत्तुरङ्गेत्यादि)। व्याख्या-हे देवाधिदेव! त्वत्कीर्तनात्-त्वन्नामग्रहणात् , तव कीर्तनं त्वत्कीर्तनं तस्मात् 'तत्पुरुषः' आजी-सङ्ग्रामे बलवतामपि-शक्तानामपि, बलं विद्यते येषां ते बलवन्तस्तेषां 'बहुव्रीहिः', भूपतीनां-राज्ञां, भुवः पतयो भूपतयस्तेषां 'तत्पुरुषः' बलं-कटकमाशु-शीघ्रं भिदां-भेदमुपैति-प्रयाति, प्रलयं यातीत्यर्थः । वलं किंभूतम् ? 'वल्गत्तुरङ्गगजगर्जितभीमनादं' वलगतां-युद्ध्यमानानां तुरगाणां गजानां च गर्जितानि तैीमारौद्रा नादाः-सिंहनादा यत्र तत् । तुरङ्गाश्च गजाश्च तुरङ्गगजाः 'द्वन्द्वः', वल्गन्तश्च ते तुरङ्गगजाश्च वलगत्तुरङ्गगजाः 'कर्मधारयः', वलगत्तुरङ्गगजानां गर्जितानि वलगत्तुरङ्गगजगर्जितानि 'तत्पुरुषः', अथवा वल्गन्तश्च ते तुरङ्गाश्च वलगत्तुरङ्गाः 'कर्मधारयः', गजानां गर्जितानि गजगर्जितानि 'तत्पुरुषः', वलगत्तुरङ्गाश्च गजगर्जितानि च वलगत्तुरङ्गगजगर्जितानि 'द्वन्द्वः', भीमाश्च ते नादाश्च भीमनादाः 'कर्मधारयः', वलगत्तुरङ्गगजगर्जितैीमनादा यत्र तद् 'बहुव्रीहिः' । दृष्टान्तमाह-इव-यथा तमः-अन्धकारं भिदामुपैति-भेदं गच्छति । तमः किंलक्षणम् ? 'उद्यदिवाकरमयूखशिखापविद्धं' उद्गच्छत्सुरकराग्रप्रेरितम् । दिवा करोतीति दिवाकरः 'तत्पुरुषः', दिवेति शब्दोऽव्ययमध्येऽस्ति, उद्यंश्चासौ दिवाकरश्चोद्यदिवाकरः 'कर्मधारयः', उद्यदिवाकरस्य मयूखाः उद्यद्दिवाकरमयूखाः 'तत्पुरुषः', उद्यदिवाकरमयूखानां शिखा उद्यदिवाकरमयूखशिखाः 'तत्पुरुषः', उद्यदिवाकरमयूखशिखाभिरपविद्धं उद्यदिवाकरमयूखशिखापविद्धं तत्पुरुषः' । इत्यष्टत्रिंशत्तमवृत्तार्थः ॥३८॥
अत्रापि सङ्ग्रामभयं निरस्यन्नाह-(कुन्ताग्रेत्यादि)। व्याख्या हे जिनेश्वर! जना युद्धे-सङ्ग्रामे जयं लभन्ते-प्राप्नुवन्ति । जनाः किलक्षणाः? 'त्वत्पादपङ्कजवनायिणः' त्वत्पादकमलकाननभाजः। तव पादौ त्वत्पादौ 'तत्पुरुषः', पङ्के जायन्ते स्मेति पङ्कजानि 'तत्पुरुषः', पङ्कजानां वनं पङ्कजवनं 'तत्पुरुषः', त्वत्पादावेव पङ्कजवनं त्वत्पादपङ्कजवनं 'कर्मधारयः', त्वत्पादपङ्कजवनमाश्रयन्त इत्येवंशीलास्त्वत्पादपङ्कजवनायिणः 'तत्पुरुषः' । पुनर्जनाः किंभूताः? 'विजितदुर्जयजेयपक्षाः' पराभूतोत्कटशत्रुगणाः । जेतुं योग्या जेयाः, जेयानां पक्षो जेयपक्षः 'तत्पुरुषः', दुःखेन जयो यस्य स दुर्जयः 'बहुव्रीहिः', दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्षः ‘कर्मधारयः',
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org