________________
२४६
भक्तामरस्तोत्रवृत्तिः अथ दावानलभयहरं जिनं स्तौति-(कल्पान्तेत्यादि)। - व्याख्या-हे कर्मक्षयैकक्षयकृशानो ! त्वन्नामकीर्तनजलं-त्वदभिधानस्तवननीरं, तव नाम त्वन्नाम 'तत्पुरुषः', त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं 'तत्पुरुषः', त्वन्नामकीर्तनमेव जलं त्वन्नामकीर्तनजलं 'कर्मधारयः', 'अशेष' न विद्यते शेषो यत्र सोऽशेषस्तं 'बहुवीहिः', विद्युत्पातादिभेदात् सकलं दावानलं-वनवह्निम् , दावश्चासावनलश्च दावानलस्तं 'कर्मधारयः' शमयति-विध्यापयति । किंभूतं दावानलम् ? 'कल्पान्तकालपवनोद्धतवह्निकल्प' कल्पान्तकालपवनेन-युगान्तसमयवातेन उद्धता-उत्कटो यो वह्निः-अग्निस्तेन कल्प-सदृशम् । कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकालः 'कर्मधारयः', कल्पान्तकालस्य पवनः कल्पान्तकालपवनः 'तत्पुरुषः', कल्पान्तकालपवनेनोद्धतः कल्पान्तकालपवनोद्धतः 'तत्पुरुषः', कल्पान्तकालपवनोद्धतश्चासौ वह्निश्च कल्पान्तकालपवनोद्धतवह्निः 'कर्मधारयः', कल्पान्तकालपवनोद्धतवह्निना कल्पः तं 'तत्पुरुषः' । पुनः किंभूतं दावानलम् ? 'ज्वलितं' प्रदीप्तम् । पुनः किंविशिष्टम् ? 'उज्वलं' रक्तम् । पुनः किंलक्षणं दावानलम् ? 'उत्स्फुलिङ्गम्' उल्लसद्वह्निकणम् । उद्-ऊवं स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तं 'बहुव्रीहिः' । दावानलं किं कुर्वन्तम् ? 'सन्मुखमापतन्तम्' अभिमु. खमागच्छन्तम् । इवोत्प्रेक्षते । विश्व-जगत् जिघत्सु-जिग्रसिषुमिव 'घस(स्ल) अदने' (पा० धा० ७१५) इति धातुः, अशेष-सामान्येन सर्वदिग्व्यापकं वा । त्वन्नामस्मरणं दावानलं स्फेटयति । इति षत्रिंशत्तमवृत्तार्थः॥ ३६॥
अथ भुजङ्गमभयं दलयन्नाह-(रक्तेक्षणमित्यादि)। व्याख्या-हे नागपतिसेव्य! यस्य पुंसः-पुरुषस्य हृदि-चित्ते त्वन्नामनागदमनी त्वन्नामैव नागदमनी-औषधिविशेषः जाङ्गलीविद्या वा, तव नाम त्वन्नाम 'तत्पुरुषः', त्वन्नामैव नागदमनी त्वन्नामनागदमनी 'कर्मधारयः', वर्तते इति शेषः, स पुमान् ‘निरस्तशङ्कः' निरस्ता शङ्का येन स 'बहुव्रीहिः' निर्भयः सन् 'क्रमयुगेन' क्रमयोर्युगं क्रमयुगं तेन 'तत्पुरुषः' निजचरणयुगलेन 'फणिनं' फणा विद्यन्ते यस्य स फणी तं 'बहुव्रीहिः' सर्प आक्रामति-घर्षति रज्जुवत् । क्रमयुगग्रहणेन विशेष द्योतयति । सामान्योऽपि सर्पः पादाहतः कुप्यति, दुष्टदन्दशूकस्य तु का वार्ता ? । किंभूतं फणिनम् ? 'रक्तेक्षणं' रक्ते ईक्षणे यस्य स तं 'बहुव्रीहिः', ताम्रनेत्रम् । (पुनः) किंभूतं फणिनम् ? 'समदकोकिलकण्ठनीलम्'। कोकिलस्य कण्ठः कोकिलकण्ठः 'तत्पुरुषः', सह मदेन वर्तते यः स समदः 'बहुव्रीहिः', समदश्चासौ कोकिलकण्ठश्च समदकोकिलकण्ठः 'कर्मधारयः', समदश्चासौ कोकिलश्च समदकोकिलः 'कर्मधारयः', समदकोकिलस्य कण्ठः समदकोकिलकण्ठः 'तत्पुरुषः' इति वा, समदकोकिलकण्ठवन्नीलः समदकोकिलकण्ठनीलः 'तत्पुरुषा', मत्तपिकगलकालम्। फणिनं पुनः किंभूतम् ? 'क्रोधोद्धतं' कोपोत्कटम् । क्रोधेनोद्धतः क्रोधोद्धतस्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org