________________
भक्तामरस्तोत्रम् "इकु जिणहा अनुजिणवरह न मिलइ तारोतार ।
जेहिं अमारणु पूजीइ ते किम मारणहार ? ॥१॥" इति श्रवणान्मुक्तः । स उक्तश्च-भो ! पुनश्चेच्चौरिकां करिष्यसि तदा मृत एवेति । स उवाच
"इक्का चोरी सा य किय, जा खोलडइ न माइ।
बीजी चोरी जे करइ, चारणु चोर न थाइ ॥ १॥" अन्यच्च-भवता वणिजा कथं पारिपन्थिका निगृहीताः ? अस्मान्मया सौराष्ट्रकचारणेन चौर्य कृतं इत्युक्ते लब्धधनः स्वे कृत्ये लग्नः । जिनभाख्यो महामात्यः श्रीधवलक्कके श्रीपार्श्वप्रासादमकारयत् । कषपट्टरत्नमयीं श्रीपार्श्वनाथप्रतिमामप्रतिमा निरमीमपत् । श्रीदुर्लभदेवराजप्रतिबोधकारिश्रीजिनेश्वरसूरिपट्टमुकुटश्रीस्तम्भनकपार्श्वप्रकटनकृन्नवानवृत्तिकारश्रीअभयदेवसूरिपार्थात् प्रातिष्ठिपत् ताम् । महामहः महादानपुरःसरं गुरुवचनाचक्रेश्वरीयुक्श्रीयुगादिदेवप्रासादं व्यरीरचत् । नवाझवृत्तेः पुस्तकान्यलीलिखत् । सङ्घपतिरभूत् । चिरं राज्यमभुनक् । सुभटमुकुटः श्रावकोत्तमो जिणहा(क)नामा दण्डाधिपः । अद्यापि तत्र पुरे पौडलिकानां शुल्कं न कश्चन गृह्णाति, चेदादत्ते सोऽधीशो न नन्दति, जिणहाप्रभावादेव तत्कृता रीतिरियम् ॥
॥ इति विंशी कथा ॥ मे० वृ०-अथोपसंजिहीर्घराह-( इत्थमित्यादि)।
हे जिनेन्द्र ! इत्थं-अनेन प्रकारेण यथा तव विभूतिरभूदित्यन्वयः। 'अभूत्' इति क्रियापदम् । का की ? 'विभूतिः' समृद्धिः । कस्य ? 'तव' । कथम् ? 'इत्थं' पूर्वोक्तप्रकारेण । कस्मिन् ? 'धर्मोपदेशनविधौ' व्याख्यानक्रियायाम् । तथा-तेन प्रकारेण अपरस्य कस्यापि देवस्य न अभूत् , तेन बाह्ययोगमहिम्नाऽपि निश्चीयते यत् त्वमेव परमः पुमानिति, सिंहावलोकनन्यायेन प्रागुक्तं दृढीकृतम् , तेन
"देवागमनभोयान-चामरादिविभूतयः ।
मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ १॥" इति समन्तभद्रोक्तमष्टसहस्रीसूत्रं प्रत्याहतं, प्रातिहार्यातिशयप्रमुखबाह्ययोगविभूतेर्भगवद्रूपादिसंसर्गेण वर्णनात् तथारूपा हि विभूतिर्न देवाधिदेवव्यभिचारिणी, मायाविलक्षैरपि भगवद्रूपस्य
१ छाया
एको जिणहा जिनवरश्च न मिलतस्तन्मयतया ।
यैरमारकः पूज्यते ते किमु मारयितारः? ॥ २छाया
एका चौरी सैव कृता या उत्सङ्गे न माति । द्वितीयां चौरिकां यदि करोति (क माति) चारणश्वौरो न भवति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org