________________
श्रीमानतुङ्गसूरिविरचितम्
" जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का | अन्नुन्नमणावाहूं, चिट्ठति सया सुही सिद्धा ॥ १ ॥ " - आर्या अनेकं गुणपर्यायापेक्षया वा, ऋषभादिव्यक्ति भेदाद् वा ।
"नामजिणा जिणनामा, ठवणजिणा हुंति देवपडिमाओ । दजिणा जिणजीवा, भावजिणा समवसरणत्था ॥ १ ॥ " - आर्या
इति व्यक्तया वा । एकम् - अद्वितीयमुत्तमोत्तमं, एकं जीवद्रव्यापेक्षया वा । ज्ञानं - क्षायिकं केवलं स्वं स्वकीयं रूपं यस्य तं ज्ञानस्वरूपम् । सर्वकर्मक्षयादात्मस्वभावो यस्य तं ज्ञानस्वरूपं - चिद्रूपं वा । न मलानि-अष्टादश दोषा यस्य तममलम् । अथैतानि पञ्चदश विशेपणानि परदर्शनिषु तत्तदेवाभिधानत्वेन प्रसिद्धानीति तर्कापोहः स्वबुद्ध्याऽत्र प्रामाणिकैः प्रमाणकोटिं प्रापणीयः । ( ग्रं० ८०० ) इति वृत्तार्थः ॥ २४ ॥
मे० वृ० - अथ सर्वदेवस्वरूपेणापि परमपुरुषत्वमेव द्रढयति - ( त्वामव्ययमित्यादि ) ।
I
हे मुनीन्द्र ! - भगवन् ! सन्तः - पण्डिताः सत्पुरुषा वा त्वां अव्ययं प्रवदन्ति इत्येवं एकैकं विशेषणं गृहीत्वा अन्वयः 'प्रवदन्ति' पारम्पर्येण प्रतिपादयन्ति । प्रवदन्ति' इति क्रियापदम् । के कर्तारः ? 'सन्तः' । कं कर्मतापन्नम् ? ' त्वाम्' । किंविशिष्टं त्वाम् ? 'अव्ययं' क्षयरहितं नित्यमित्यर्थः, द्रव्यार्थिकनयापेक्षया जीवस्वरूपेण नित्यत्वात्, 'भाविनि भूतोपचार' इति न्यायेन चरमशरीरभाजः सिद्धत्वेन विवक्षणाद् वा । पुनः किंविशिष्टम् ? 'विभुं' तव ज्ञानस्य विश्वप्रकाशकत्वात्, “इयत्तानवच्छिन्नपरिमाणयोगित्वं विभुत्वं" इति नैयायिकाः, ज्ञानस्य घटादेर्वस्तुनो ग्रहणरूपपरिणामेन केन - चित् प्रकारेण साकारत्वेन विश्वव्यापकत्वस्वीकारेण जैनमतेऽपि तल्लक्षणं न दुष्टमिति, यद्वा विभवति - कर्मोन्मूलने समर्थो भवति (इति) विभुस्तम् । पुनः किंविशिष्टं त्वाम् ? 'अचिन्त्यं' अनाकलनीय स्वरूपं, लोकोत्तरलिङ्गधारित्वात् परमयोगिभिरपि तव यथास्थितस्वरूपानवधारणात् । पुनः किंविशिष्टं त्वाम् ? 'असङ्ख्यं' न विद्यते सङ्ख्यं युद्धं यस्य स तम्, यद्वा सङ्ख्यया-गुणानां गणनया रहितम् । पुनः किंविशिष्टं त्वाम् ? 'आद्यं' आदिपुरुपतया प्रसिद्धं, "आदिविद्वान् सिद्धः" इति कापिलाः, तीर्थङ्करेष्वाद्यं - प्रथमं वा । पुनः किंविशिष्टं त्वाम् ? 'ब्रह्माणं' वीर्थादिकरत्वेन धर्मसृष्टिप्रणयनाद् विधातारम् । पुनः किंविशिष्टम् ? 'ईश्वरं ' त्रैलोक्य पूजनीयत्वेन अनन्यतुल्यैश्वर्यधारिणं, जटाशालि
3
१ छाया
२ छाया
Jain Education International
यत्र चैकः सिद्धस्तत्रान्ता भवक्षयविमुक्ताः । अन्योन्यमनाबाधं तिष्ठन्ति सदा सुखिनः सिद्धाः ॥
६५
नामजिना जिननामानि स्थापनाजिना भवन्ति देवप्रतिमाः । द्रव्यजिना जिनजीवा भावजिना: समवसरणस्थाः ॥
३ 'पुण हुंति जिदिपडिमाओ ' इति पाठो देववन्दनभाष्ये ( मा० ५१ ) । ४ ' प्रमाणी यः' इति ग-पाठः ।
भ० ९
For Private & Personal Use Only
www.jainelibrary.org