________________
६४
भक्तामस्तोरत्रम् .. अथ सर्वदेवनाम्ना जिनं स्तौति
त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं
ज्ञानखरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ गु० वि०-हे सर्वदर्शिन् ! सन्तो-विचक्षणा यतयः त्वां एवंविधं प्रवदन्ति-प्रकर्षण ब्रुवते, जानन्तीत्यर्थः । किंविशिष्टम् ? न व्येति-न चयापचयं गच्छतीत्यव्ययस्तं सर्वकालस्थिरैकस्वभावम् । विभाति-परमैश्वर्येण शोभत इति विभुस्तम् । विभवति कर्मोन्मूलने समर्थों भवतीति वा विभुस्तं, इन्द्रादिप्रभुं वा । आध्यात्मिकैरपि न चिन्तितुं शक्यस्तमचिन्त्यम् । अत्यद्भुतगुणयुतं वा । गुणानां न सङ्ख्या-इयत्ता यस्य तमसङ्ख्यं, संसारस्यानादित्वादनन्तज्ञानोऽपि निःशेषतया जीवानां भवान् न सङ्ख्याति-न आचष्टे इत्यसङ्ख्यं, अनन्तार्थान-अकारादीन् वर्णान् न सङ्ख्यातीत्यसङ्ख्यम् । अनन्तार्थत्वमागमे
."सवनईणं जा हुज, वालुया संवउदहि (सबोदहीण?) जं तोयम् ।
तत्तो अणंतगुणिओ, अत्थो इक्कस्स सुत्तस्स ॥१॥" - गुणतः कालतो वा सङ्ख्यातुमशक्यस्तमसङ्ख्यम् । आदौ भव आद्यः, लोकव्यवहारसृष्टिहेतुत्वात् तम् । नमो अरहताणमिति पञ्चपरमेष्ठिष्वर्हतां प्रथमतया आद्यम् । चतुर्विंशतिजिनेष्वाद्यं वा प्रथमतीर्थकरं स्वस्वतीर्थस्यादिकरत्वात् , सर्वजिनगण आयो वा सोपायेन सिद्धं वा । बृंहति-अनन्तानन्देन वर्धत इति ब्रह्मा तं, ब्रह्म-निर्वाणं तद्योगाद् ब्रह्माणम् । तेजोरव्योरिव सिद्धसिद्ध्योरभेदात् सर्वकर्ममुक्तं वा । सकलसुरेषु ईशितुं शीलमस्य तमीश्वरं कृतार्थ वा । अनन्तज्ञानदर्शनयोगादनन्तम् । न अन्तो मृत्युरूपो यस्य तम् । अनन्तचतुष्टयसमृद्धं वा । अनङ्गस्य-कामस्य केतुरिव तम् । यथा केतुरुदितो जगत्क्षयं कुरुते, तथा भगवान् कन्दर्पस्य क्षये हेतुः। न अङ्गानि-वैक्रियौदारिकाहारकतैजसकार्मणान्येव केतुःचिहं यस्य तमनङ्गकेतुम् । योगिनां-मनोवचःकायजितां चतुर्ज्ञानिनां ध्यानिनां वा ईश्वरंनाथम् । अथवा योगिनां-सयोगकेवलिनां मान्यत्वादीश्वरम्। विदितः-अवगतः सम्यग्ज्ञानदर्शनचारित्ररूपो योगो येन । अथवा विदितो योगोध्यानिभिर्यस्मात् तम् । अथ च विशेषेण दितः-खण्डितो योगो-जीवेन सहायःपिण्डाग्निनीरक्षीरन्यायेनात्यन्तं लग्नः कर्मसम्बन्धो येन तम् । अनेकं ज्ञानेन सर्वगतत्वात् । अथवा सिद्धानामनेकेषां एकत्रावस्थानात् । उक्तं च१ छाया
सर्वनदीनां यावत्यो भवेयुर्वालुकाः सर्वोदधीनां यत तोयम् ।
- ततोऽनन्तगुणितोऽर्थ एकस्य सूत्रस्य ॥ २ 'सब्बोदहीण जं उदयं' इति पाठः सुबोधिकायां प्रथमे व्याख्याने । ३ 'नीरं' इति क-पाठः। 'अरिहं' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org