________________
१४
भक्तामरस्तोत्रम् "अत्थविहूणो पुरिसो, सुवंसजाओवि लहइ लहुअत्तं ।
पावइ परिभवठाणं, गुणरहिओ धणुहदंडव ॥१॥"-आर्या इति विमृश्य सुमतिर्धनार्जनचिकीः समुद्रतटपुरं गत्वा पोतमारुरोह । क्रमेण बोहित्थेऽम्बुधिमध्यगे कल्पान्तवाता इव दुर्वाता ववुः । पूर्व कादम्बिनीतिमिरपटली प्रबलदावानलधूमावलीव नभोमण्डलमरौत्सीत्। राक्षसीनेत्रकान्तकीलेव विद्युल्लता धनमध्ये नामांसीत् । नाविकजनश्रवोदुःश्रवं स्तनयित्नुस्तनितं निर्घातपातसममभूत् । पीतमद्या इव सागरोमिष्वितस्ततश्चरन्तस्तिमि-तिमिङ्गिल-पाठीन-पीठ-नक्र-चक्र-मकर-कूर्म-शिशुमारादिदुष्टजलचरजन्तुवाराश्चक्षुभुः। तलगता अपि वालुकाकणाः कर्ममुक्ता इवोर्ध्व जग्मुः। जगजिग्रसिषुराक्षस इवोन्मुमूर्छार्मिमाला । धाटीक्षुभिता इव सांयात्रिकाः कान्दिशीकाः कोलाहलं चक्रुः स्वाभीष्टदेवान् सस्मरुश्च । नागरः सागरोपर्यतिष्ठन् दुर्जन इव कापि स्थिति न लेभे । सितपटः पोतवणिग्मनोरथवत् खण्डशोऽभूत् । कृतघ्नस्नेहा इव सज्जा अपि रजवस्तुत्रुटुः । सुवंशा अपि पोतविध्वंसरक्षणेऽक्षमा अभूवन् । तत्र क्षणे केऽपि मुनय इव कर्मग्रन्थिमिव कूपकस्तम्भं चिच्छिदुः । केऽपि कान्ताङ्गमिव फलकं कराभ्यां गाढं जगृहुः । केऽपि गुरुवाक्यमिव साररत्नादि हृन्मध्ये दधुः । अत्रान्तरे भूतात इव कालज्वरात इव पापीव पोत इतस्ततो भ्रान्त्वा भग्न उपकार इव कृतघ्ने । सर्वोऽपि वस्तुस्तोमोऽम्भोधिमध्ये मग्नः। सुमतिस्तुर्य वृत्तं स्मरन् चक्रेश्वर्यनुभावाद् बाहुभ्यां तटिनीशं तरंस्तटे लग्नः । प्रत्यक्षीभूय देवी तस्मै पञ्चाक्षसमं रत्नपञ्चकं ददौ, नगरमानीतश्च । राजमान्यो वदान्यो धन्यो धर्मी धनं विललास, काशप्रकाशयशाः सुमतिदृष्टधर्मातिशयः परमश्रावकोऽभूत् ॥
॥ इति द्वितीया कथा ॥२॥ मे० वृ०-अथ पूर्वोक्तमेव भजयन्तरेण समर्थयति-(वक्तुमित्यादि)।
हे गुणसमुद्र! ते-तव गुणान् वक्तुं कः पुरुषः क्षमः स्यात् ? इत्यन्वयः । क्षमः-समर्थों भवेत् इत्यर्थः । 'स्यात्' इति क्रियापदम् । कः कर्ताः ? 'क' पुरुषः । किं कर्तुम् ? 'वक्तुं' वाङ्ममात्रेण पठितुम् । कान् कर्मतापन्नान् ? 'गुणान्' । कस्य ? 'ते' तव । कथंभूतान् तान् गुणान् ? 'शशाङ्ककान्तान्' चन्द्रवन्मनोहरान् । कथंभूतः कः पुरुषः ? 'बुद्ध्या सुरगुरुप्रतिमः' बृहस्पतिप्रतिविम्बः। कथमपि । अत्राप्यर्थान्तरं न्यस्यति-वा-अथवा अम्बुनिधि भुजाभ्यां तरीतुं कः पुरुषः अलं-समर्थः स्यात् ?
छाया
अर्थविहीनः पुरुषः, सुवंशजातोऽपि लभते लघुत्वम् ।
प्रामोति परिभवस्थानं, गुणरहितो धनुर्दग्ड इव ॥ २ लहयत्तं' इति ख-पाठः। ३ मेघनादम्। 'क्षुब्धा' इति ख-ग-पाठः। ख-पाठः।
५ 'परभावक' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org