________________
श्रीमानतुङ्गसूरिविरचितम् इति, तयोः सख्यं कारितं सरखत्या, बहिवृत्त्या मिलितौ तौ चलितो, स्वगृहं प्रति क्रमेण प्राप्ती, राजानमसेविषातां प्राग्वत् । उक्तं च
"मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरङ्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः
समानशीलव्यसनेषु सख्यम् ॥१॥"-उपजातिः . एकदा बाणस्य स्वस्त्रिया सह प्रणयकलहः सञ्जज्ञे ।सा कामिनी मानिनी मानं नामुश्चत् । रजनी बहुरगमत् । मयूरः शरीरचिन्तार्थ व्रजन् तं भूभागमागमत् , वातायने दम्पत्योयनिं श्रुत्वा तस्थौ । पतिव्रते! क्षमस्वापराधमेकम् , न पुनः कोपयिष्ये त्वामित्युक्त्वा बाणः पत्नीपादयोरपतत् । सा सनूपुरेण चरणेन तं जघान । तुलाकोटिक्वणश्रवणान्ननरमणापमाननाद् दूनो गृहगवाक्षाधोभागस्थो मयूरोऽभवत्। बाणस्तु नव्यं पद्यमपाठीत्
गतप्राया रात्रिः कृशतनुशशी शीर्यत इव
प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्त्यजसि न यथा त्वं कुंधमहो !
कुचप्रत्यासत्त्या हृदयमपि ते सुभु! कठिनम् ॥ १॥-शिखरिणी इति श्रुत्वा मयूरो बाणमभाणीत्-सुभ्रुपदं मा वादीः, सकोपनत्वाञ्चण्डि ! कठिनमित्थं पठेत्याकर्ण्य सा सती मुखस्थताम्बूलरसक्षेपात् कुष्ठी भवेति पुत्रीचरित्रप्रकाशक तं शशाप । तत्क्षणं कुष्ठमण्डलान्यभवंस्तत्तनौ । बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरकवलं परिधाय समेतं मयूरं प्रति 'आविउ वरकोढी' इति श्लिष्टं वच उवाच । राज्ञा तद् ज्ञात्वा दृष्ट्वा च कुष्ठं निर्गमय्यागन्तव्यमित्यवादि मयूरः। स सूर्यप्रासादे स्थिरीभूयैकमना उपविश्य
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्ताः सिक्तैरिवौघैरुदयगिरितटीधातुधाराद्रवस्य ।
'मेलितौ' इति ग-पाठः। २ उपजाति-लक्षणम्
"स्यादिन्द्रवज्रा यदि तौ जगौ गः, उपेन्द्रवज्रा जतजास्ततो गौ ।
अनन्तरोदीरितलक्ष्मभाजी, पादौ यदीयावुपजातयस्ताः ॥" । तुलाकोटि-नूपुरम् । ४ 'घूर्मित' इति ग-पाठः। ५ 'कथमहो' इति ग-पाठः । शिखरिणी-लक्षणम्
____ "रसै रुदैछिन्मा वमनसभला गः शिखरिणी"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org