SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रकाशः भोजभीमप्रबन्धाः। ३३ अथान्यदा श्रीभोजः श्रीभीमभूपतेः पार्थातमुखेन वस्तुचतुष्टयमयाचिष्ट । १ एकं वस्तु इहास्ति परत्र नास्ति २ द्वितीयं परत्रास्ति अत्र नास्ति ३ तृतीयमुभयत्रास्ति ४ चतुर्थमुभयत्रापि नास्ति इति विदुषां संदिग्धेऽर्थे पटहे वाद्यमाने गणिकावचनाद्वेश्यातपस्विदानेश्वरद्यूतकाररूपं बस्तुचतुष्टयं प्रहितमिति। वस्तुचतुष्टयप्रबन्धः ॥ ३४ अन्यदा भोजनृपो वीरचर्यया परिभ्रमन्निशि कयाचिदपि दरिद्रवध्वा । ८८) माणुसडा दस दसै दसा सुणियई लोयपसिद्ध । ____ मह कन्त ह इक्वज दसा अवरि नवोरहिं लिखें ॥ इति पठ्यमानमाकर्ण्य तस्या दुस्थावस्थया संजातकृपो नृपः प्रातस्तत्पतिं सदस्यानीय तस्याः किमप्यायतिहितं विमृश्य बीजपूरकद्वये प्रत्येकलक्षमूल्यं रत्नं तदुपकारायान्तर्विधाय तस्मै प्रसादीकृतवान् । तेनापि तं वृत्तान्तमजानता मूल्येन पत्रशाकापणे विक्रीतं तेनाप्युपायनाय तन्मातुलिङ्गद्वयं कस्यापि समर्पितं तेन श्रीभोजस्यैव समर्पितं ॥ ८९) वेलामहल्लकल्लोलपल्लिदं" जइ वि गिरिनई पत्तं । ___ अणुसरइ मग्गलग्गं पुणोवि रयणायरे रयणं ॥ *इत्यनुभवाद्भाग्यं नृपस्तथ्यमेव मेने यतः९०) प्रीणिताशेषविश्वासु वर्षास्वपि पयोलवम् । नामुयाचातको नूनमलभ्यं लभ्यते कुतः ॥* इति बीजपूरकप्रबन्धः॥ १ प्रहीयतां d २ दुर्विध d ३ माणसडी b४ हवइ d ५ माणसडा दसई देवेहि निम्मवियाई c ६ मुज्झ C ७ नवोरिहिं हरियाई ते वोरहिं C ८ लक्षमूल्यां रत्नद्वयीं प्रच्छनोपकाराय HL ९ उपढौकितम् d १० पल्लियं a पिल्लियं cd ** तारकद्वयांतर्गतः पाठः a आदर्शे नोपलभ्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy