SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ है ७२ प्रबन्धचिन्तामणिः T: 1 ३२ अथाबाल्यादेव स नृप: ८३) * मस्तकस्थायिनं मृत्युं यदि पश्येदयं जनः । आहारोऽपि न रोचेत किमुताकार्यकारिता | इति विज्ञाततत्त्व धर्मेऽप्रमत्तोऽभूत् । कदाचिन्निद्राभङ्गानन्तरं कश्चिद्विपश्चित्समेत्य वेगवति तुरगेऽधिरूढस्त्वां प्रति प्रेतपतिरुपैतीत्यनुसारेण धर्मकर्मणि सज्जीभवितव्यमिति वचनाधिकारिणे पण्डिताय प्रत्यहमुचित - दानं ददानः कदापि पराले सभासिंहासने उपविष्टः । स्थगिकावित्तसमर्पितबीटकात्प्रागेव मुखे पत्रं क्षिप्त्वाभ्यवहरन् व्यवहारवेदिभिस्तत्कारणं पृष्ट इत्यवदत् । कृतान्तदन्तान्तरवर्तिनां मनुष्याणां यद्दत्तं यच्च भुक्तं तदेवात्मीयं परस्य तु संशयः । तथाच ८४) उत्थायोत्थाय बोधव्यं किमद्य सुकृतं कृतम् । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥ १ ॥ ८५) लोक: पृच्छति मे वार्तां शरीरे कुशलं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ २ ॥ ८६) श्वः कार्यमद्य कुर्वीत पूर्व चापराह्निकम् । मृत्युर्न हि परीक्षेत कृतं वास्य न वा कृतम् || ३ || ८७) मृतो मृत्युर्जरा जीर्णा विपन्नाः किं विपत्तयः । : व्याधयो बाधिताः किं तु हृष्यन्तिं यदमी जनाः ॥ ४ ॥ इत्यनित्यताश्लोकचतुष्कप्रबन्धः ॥ -- * श्लोकः सुभाषितावल्यां ( ३२६७ ) वर्तते १ अकृत्य C २ पत्र मुखबीटिकयाभ्यवहरन् व्यवहारवेदिभिर्विज्ञप्त इति श्लोकचतुष्ठयं जगाद a H x हितोपदेशे सुभाषितावल्यां ( ३२९० ) च वर्तते ३ पूर्वाहे वापराहिकम् c Jain Education International [ द्वितीयः महाभारते शान्तिपर्वणि सुभाषितावल्यां ( ३२८१ ) च वर्तते ४ व्याधिताः e K ५ माद्यन्ति C + अनित्यता श्लोकचतुष्कप्रबन्धः a H L C आदर्शान्मुत्क्वान्यत्र नोपलभ्यते For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy