________________
प्रकाशः ]
भोजभीमप्रबन्धाः |
७१
प्रहितवान् । तत्र प्रत्यूषे नृपसमीपे नीतो गोपाल: श्रीभोजेन किमपि
निवेदयेत्यादिष्टः
८२) भोय ए हु गलि कण्टुलउ भण केहउँ पडिहाइ | उर लच्छिहि मुह सरसति सीम निवद्धि का ||
6
T सरस्वतीकण्ठाभरणगोप इत्याह ततो राजा तदुक्तिविस्मितः T | सभायामलंकृतायां नेपथ्यधारिणीं पणस्त्रियं पुरो विलोक्य तां प्रति इह किं ' इत्याकस्मिकं वचः श्रीभोजः समादिशत् । अथ स्वजातिपक्षपातादिव सरस्वत्याः प्रसादपात्रं शेमुषीनिधिः सा सुमुखी शैरीरिणी प्रतिभेव गम्भीरमपि तद्वचनतत्त्वमवगम्ये, पृच्छन्तीति नृपं प्रति वचः प्रथितवतीत्युचिततद्वचनविकसितास्येन भोजेन लक्षत्रये दाप्यमानेऽज्ञाततत्त्वया त्रिरुक्तोऽपि कोशाधिपो यदा न ददाति तदा तं प्रकाशमाह । देशसात्म्यात्प्रकृतिकार्पण्याच्च लक्षत्रयमस्यै दाप्यते । औदार्यातु साम्राज्यमपि दीयमानमल्पतरमेव स्यादित्यादिष्टे समस्त समाज लोकैः प्रेर्यमाणः स तयोर्वचनयोरन्वयं पृष्ट इत्यभिदधे । कर्णान्तविश्रान्तमपाङ्गाञ्जनेरेखायुगं युगपदस्या निरूप्य मयेह किमित्यभिहितं । अनया तु द्विवचनस्य बहुवचनमिति प्राकृतलक्षणात्पृच्छन्तीति कर्णाभ्यर्णेऽञ्जनरेषामिषात् । यो भवद्भ्यां श्रुतपूर्वः स एवायं श्रीभोज इति निर्णेतुं दृशौ गते इत्युत्तरं प्रतिपादितं तदियं प्रत्यक्षरूपा भारती तदस्याः पारितोषिके लक्षत्रयं कियदिति ततो लक्षत्रयस्य त्रिर्व्याहारान्नवलक्षस्तिस्यै दापयामास ।
१ भोज एव हु कण्ठलउ a २ स्तंभलउ कंचुल a ३ लच्छिि ४ कांई ९ उरि लाच्छिहि मुहि ९ सीम विहली कोइ C
TT स्थाने इति तदुक्तिमाकर्ण्य विस्मयस्मेरमानस: H आदर्श पाठ: ५ सुमुखी शिरोमणी P ६ तद्वचोवगम्य BHc ७ वचसा D ८ विक सितवदनाम्भोजेन d
+ तस्मिन्स्तब्धतां भजमाने B H आदर्शयोरधिकापंक्तिरत्र
-
सूत्रम् ।
९ प्राकृतसूत्रलक्षणात् A H वररुचिकृतप्राकृतप्रकाशे वर्तते चैतादृशं १० गत इत्याशङ्कयोत्तरं दत्तवती प्रज्ञावदातवा पतीनामपि पण्डितानां योर्थोऽविषयस्तं सहसैवोद्भिरन्ती BH ११ लक्षान्प्रत्यक्षान् H
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org