________________
७० प्रबन्धचिन्तामणिः
[द्वितीयः __३० एतस्मिन्नवसरे मिथ्यादृशां शासने विजयिनि सम्यग्दर्शनद्वेषिभिः कैश्चित्प्रधानपुरुषैर्नृपोऽभिदधे । यदि जैनमते कश्चिदीदृग्प्रभावाविर्भावः प्रभवति तदा सिताम्बराः स्वदेशे स्थाप्यन्ते नो चेन्निस्यन्ते इति तद्वचनानन्तरं श्रीमानतुङ्गाचार्यास्तत्राकार्य निजदेवतातिशयं कमपि दर्शयन्तु इति राज्ञा भैणितं । ते प्राहु:--मुक्तानामस्मद्देवतानामत्र कोऽतिशयः संभवति तथापि तत्किकराणां सुराणां प्रभावाविर्भावः कोऽपि विश्वचमत्कारकारी दर्यत इत्यभिधाय चतुश्चत्वारिंशतों निगडैर्निजमङ्गं नियमितं कारयित्वा तन्नगरवर्तिनः श्रीयुगादिदेवस्य प्रासादपाश्चात्यभागे स्थितो मन्त्रगर्भ *भक्तामरेति नवं स्तवं कुर्वन्प्रतिकाव्यं भग्नैकैकनिगडः शृङ्खलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ॥ इति श्रीमानतुङ्गाचार्यप्रवन्धः ।।
३१ अथ कदापि राजा स्वदेशपण्डितानां पाण्डित्यं श्लाघमानो गूर्जरदेशमविदग्धतया निन्दन् स्थानपुरुषेणाभिदधे। अस्मद्देशीयबालगोपालस्यापि भवदीयपण्डिताग्रणीः कोऽपि तुलां नारोहतीति । ततः ज्ञापितवृत्तान्तः श्रीभीमः कदापि गोपवेषधारिणं पण्डितं पणस्त्रियं च तत्र
१ ततस्तौ स्पर्द्धया काश्मीरं गतौ इत्यधिकः पाठः d आदर्शे २ दर्शयत Ld ३ अभिहिते L H४ ततश्चत्वारिंशत् cd
* भक्तामरस्तोत्रं श्रीमानतुंगाचार्यरचितं प्रसिद्धमस्ति
५ देशीयबालगोपालयोः CH $ B H आदर्शयोरत्रैवं पाठः-विज्ञप्ते नृपस्तं वृथा भाषिणं चिकीर्षुः आकारसंवृत्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तवृत्तान्तं ज्ञापितः श्रीभीमःस्वदेशसीमा. न्तनगरे विदग्धाः काश्चित्पणस्त्रियः काश्चन गोपवेषधारिणः पण्डितांश्च मुक्तवान् । अन्यदा श्रीभोजदौवारिकेण, तत्रागत्य कश्चिद्विधो गोपः प्रतापदेवीनाम्नी पणस्त्रियं स गृहीत्वा विदग्धलोकसुधासारां धारामारादवाप्य तां क्वापि सज्जनाकृते विमुच्य प्रत्यूष. मुख भूपाय गोपे निवेदिते श्रीभोजेन किमपि वदेत्यादिष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org