________________
प्रकाशः]
भोजभीमप्रबन्धाः। पिहिततनु पसभायामायातो मयूरेण मयूरेणेव कोमलगिरा वरकोडीति तं प्राकृतशब्दे प्रोक्ते चतुरचक्रवर्ती नृपो बाणं सविस्मयं प्रेक्षमाणस्तेने प्रस्तावान्तरे देवताराधनोपायश्चेतस्यवतारयांचक्रे । बाणस्तु सापत्रपस्तत उत्थाय नगरसीमनि स्तम्भमारोप्य खदिराङ्गारपूर्णमधःकुण्डं विधाय स्तम्भाप्रवर्तिनि सिक्कके स्वयमधिरूढः *सूर्यस्तुतौ प्रतिकाव्यप्रान्ते सिक्ककपदं छुरिकया छिन्दन् पञ्चभिः काव्यैस्तेन पञ्चसु पदेषु छिन्नेषु सिक्ककाग्रे विलमः षष्ठेन काव्येन प्रत्यक्षीकृतभानुस्तत्प्रसादात्सद्यःसंजातजात्यकाञ्चनकार्यः । अन्यस्मिन्नहनि स सुवर्णचन्दनावलिप्ताङ्गः संवीतसितदिव्यवसनः समाजगाम । तद्वपुःपाटवं पश्यता नृपेण सूर्यवरप्रसाद मयूरे विज्ञपयति बाणो बाणनिभया गिरा तं मर्मणि विव्याध । यदि देवताराधनं सुकरं तदा त्वमपि किमपीहक् चित्रमाविःकुरु । इत्यभिहिते तेन मयूरेण तं प्रति प्रतिवचः संदधे । निरामयस्य किमायुर्वेदविदा तथापि तव वचः सत्यापयितुं निजपादौ च पाणी छुर्या विदार्य त्वया षष्ठे काव्ये सूर्यः परितोषितोऽहं तु पूर्वस्य काव्यस्य षष्ठेऽक्षरे भवानी परितोषयामीति प्रतिश्रुत्य सुखासनमासीनश्चण्डिकाप्रासादपश्चाद्भागे निविष्टो मा भाङ्क्षीविभ्रममिति षष्ठेऽक्षरे प्रत्यक्षीकृतचण्डिकाप्रसादात्प्रत्यअप्रथमानवपुःपल्लवः स्वसन्मुखं च तत्प्रासादमालोक्याभिमुखागतैर्नृपतिप्रमुखराजलोकैः कृतजयजयारवो महता महेन पुरं प्राविक्षत् । १ वरकोढी b बकोढी d २ ततःd ३ चिन्तयांचक्रे H c ४ शिक्यके d * सूर्यशतकं मयूररचित न बाणकृतं काव्यमालायां च प्रसिद्धम् ५ कायकान्तिः bL ६ आराधनाद्यं a
* चण्डीशतकं तु बाणरचितं न मयूरकृतम् काव्यमालायां च प्रसिद्धम् तस्य प्रथमः श्लोकः इत्थं समप्र: B आदर्श प्रदत्तः
मा भांक्षीविभ्रमं धरधरविधुरता केयमास्यस्य रागं पाणौ प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलं । इत्युद्युत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या । न्यस्तो वो मूय॑मुष्या मरुदसुहदसुन्संहरनंधिरहः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org