SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६८ प्रबन्धचिन्तामणिः । ७९) सुरताय नमस्तस्मै जगदानन्ददायिने । इति प्रोक्ते आनुषङ्गि फलं यस्य भोजराज भवादृशाः || इति विजययोक्ते राजा सत्रपमधोमुखः तस्थौ । ततो राजा तां भो गिनीं चक्रे । अन्यदा तया जालान्तरे, चन्द्रकरस्पर्शेऽपाठि ८०) अलं कलङ्कशृङ्गार करस्पर्शनलीलया । चन्द्र चण्डी निर्माल्यमसि न स्पर्शमर्हसि || इत्यत्र बहु वक्तव्यं परंपरया तत्तु ज्ञातव्यम् ॥ इति शीता (सीता) पण्डिताप्रबन्धः ॥ [ द्वितीय: २९ अथ मयूरबाणाभिधानौ भावुकशालकौ पण्डितौ निजविद्वत्तया मिथः स्पर्धमानौ नृपसदसि लब्धप्रतिष्ठावभूतां कदाचिद्वाणपण्डितो जामिमिलनाय तद्गृहं गतो निशि द्वारप्रसुप्तो भावुकेनानुनीयमानां जाि निशम्य तत्र दत्तावधान इत्यशृणोत् ८१) गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णित इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो इति भूयो भूयस्तेन त्रिपदीमुदीर्यमाणामाकर्ण्य । कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥ इति भ्रातृमुखात्तूर्य पदमाकर्ण्य क्रुद्धा सा सत्रपा च कुष्ठी भवेति तं भ्रातरं शशाप इति । पतिव्रताव्रतप्रभावात्तदात्वप्रसूतरोगः प्रातः शीतरक्षा * भोजप्रबन्धे वर्तते पद्यमिदं (२८९) शार्ङ्गधर पद्धत्यां (५११) सरस्वती कुटुम्ब - दुहितुरिति १ मुखं CD † वाग्भहालंकारे ऽप्युदाहतं पद्यमिदम् सुभाषितावल्यां ( १६१२ ) बाणस्येति शार्ङ्गधरपद्धत्यां ( ३७१३ ) च कस्यापीति २ इमां H ३ तदात्वे प्रसुतप्रभूतरोग: C D तदा च प्रभूतप्रसूतरोग: H B Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy