________________
प्रकाशः]
भोजभीमप्रबन्धाः । काकुलतया पञ्चत्वाय तदशनमेवं बुभुजे । तस्मिन्स्थिरे प्रादुर्भूतप्रातिभवैभवा विद्यात्रयीं रघुवात्स्यायनकामशास्त्रचाणाक्यनीतिशास्त्रमीपत्समभ्यस्य च नवयौवनया विजयाभिधानया विदुष्या स्वसुतया साध श्रीभोजस्य सदः शृङ्गारयन्ती श्रीभोज प्रति प्राह७५) शौर्य शत्रुकुलक्षयावधि यशो ब्रह्माण्डमाण्डावधि
त्यागस्तकुंकवाञ्छितावधिरियं क्षोणी समुद्रावधिः । श्रद्धा पर्वतपुत्रिकापतिपदद्वन्द्वप्रमाणावधिः
श्रीमद्भोजमहीपतेर्निरवधिः शेषो गुणानां गणः ॥ अथ विनोदप्रियेण राज्ञा कुचवर्णनाय नियुक्ती विजया प्राह७६) उन्नाहश्चिबुकावधिर्भुजलतामूलावधिः संभवो
विस्तारो हृदयावधिः कमलिनीसूत्रावधिः संहतिः । वर्णः स्वर्णकावधिः कठिनता वज्राकरक्ष्मावधि
स्तन्वङ्ग्याः स्तनमण्डले यदपर लावण्यमस्तावधि । इति तद्वर्णनात्तेनधिकविना राज्ञा७७) किं वर्ण्यते कुचद्वन्द्वमस्याः कमलचक्षुषः । तयोक्तम्___ सप्तद्वीपकरग्राही भवान् यत्र करप्रदः ॥ राज्ञा-- ७८) प्रहतमुरजमन्द्रध्वानवद्भिः पयोदैः
कथमलिकुलनीलैः सैव दिग् संप्ररुद्धा । तयोक्तम् -
प्रथमविरहखेदम्लायिनी यत्र बाला
वसति नयनवान्तैरश्रुभिधौतवक्त्रा ॥ १ तद्वमनमेव P २ प्रभूत C D ३ तर्कुका याचकः ४ रिति. ५ अनु. युक्ता D ६ कषावधिः a b ७ कुचमण्डले किमपरं a ८ तद्वर्णनाकर्णनात् CD
पाराशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org