________________
६६
प्रबन्धचिन्तामणिः।
[द्वितीयः
तेन वैरिकमलाकचग्रह--
व्यग्रहस्त न कवित्वमस्ति मे ॥१॥ ७२) वचनं धनपालस्य चन्दनं मलयस्य च ।
सरसं हृदि विन्यस्य कोऽभून्नाम न निवृतः ॥२॥ अन्यदा सर्वाण्यपि दर्शनानि एकत्राहूय मुक्तिमार्गे पृष्टे ते स्वस्वदर्शनपक्षपातं ब्रुवाणाः सत्यमार्गजिज्ञासयैकी क्रियमाणाः पाण्मासीमवधीकृत्य श्रीशारदाराधनतत्पराः । कस्या अपि निशःशेषे जागर्षीति व्याहृतिपूर्वमुत्थाप्य सा नृपं७३) श्रोतव्यः सौगतो धर्मः कर्तव्यः पुनराहतः ।
वैदिको व्यवहर्तव्यो ध्यातव्यः परमः शिवः ॥ अथवा ध्यातव्यं पदमक्षयं । श्लोकममुं राज्ञे दर्शनिभ्यश्च समादिश्य श्रीभारती तिरोदधे । ७४) अहिंसालक्षणो धर्मो मान्या देवी च भारती
ध्यानेन मुक्तिमानोति सर्वदर्शनिनां मतम् ॥ इति श्लोकयुग्मं निर्माय नृपाय निरपायनिर्णयं प्राहुः ॥ शोभनमुनेश्चतुविंशतिका स्तुतिः प्रतीतैव ।।
२८ अथ तन्नगरनिवासिनी शीताभिधाना रन्धनी कमपि विदेशवासिनं कार्पटिकं सूर्यपर्वणि पाकप्राशनमुपादाय जलाश्रये कगुणीतैलमास्वाद्य गृहमुपेत्य तद्वमनाद्विपन्नमालोक्य सद्रव्यमित्युत्पद्यमानकलङ्कश
१ सोमेश्वरकृतकीर्तिकौमुद्यामपि दृश्यते पद्यमिदं ( १-१६) २ निशा C ३ व्याहृतः C d ४ धातव्यः P ५ धातव्यं P ६ सरस्वती Cd ७ ध्यानेन मुक्तिमार्गः स्यादेवं C D ८ युग्मश्लोकमुक्त्वा देवी तिरोधत्त D ९ शोभनचतु b)
___ * इयं चतुर्विशिका काव्यमालायां मुद्रिता १० शीता (सीता) भोजप्रबन्धेपि १८९५ संस्करणे वर्णिता (पृ.८८,८९,१४७,२०४) ११ उपनीय D १२ कार्पटिकं पाकाय तस्या गृहेऽनं कारयित्वा निशि घृतकुपिकन्यत्ययेन काङ्गुणीतैलं परिवेषितं इति वाक्यार्थो भासते इति प्रथमसंस्कर्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org