SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रकाया भोलभीमप्रबन्धाः । २६ अन्यदा भोजसभायां काव्यमिदमुक्तं तेन६८) धाराधीश धरामहीशगणने कौतूहलीवानयं वेधास्त्वद्गणनां चकार खटिकाखण्डेन रेखां दिवि । सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमिधवा भावात्तत्त्यजति स्म सोयमवनीपीठे तुषाराचलः'। अपरपण्डितैरस्मिन्काव्ये उपहसिते धनपालेनोक्तम्६९) *शैलैबन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वस्तु प्रस्तुतमेव किंचन वयं ब्रूमस्तथाप्युच्चकै लोकोयं हसति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ।। एकदा राजन्महाभारती कथा श्रूयतामित्युक्ते पण्डितं प्रति परमाहतेन तेन प्रत्युक्तं७०)Tकानीनस्य मुनेः स्वबान्धववधूवैधव्यविध्वंसिनो नेतारः किल पञ्च गोलकसुताः कुण्डाः- स्वयं पाण्डवाः । तेमी पञ्च समानजानय इति ख्यातास्तदुत्कीर्तनं पुण्यं स्वस्त्ययनं भवेद्यदि नृणां पापस्य कान्या गतिः॥ २७ अधुना किमपि प्रबन्धादि क्रियमाणमास्ते नृपेणेत्युक्ते धनपालः प्राह७१) आरनालगलदाहशङ्कया मन्मुखादपगता सरस्वती । १ पद्यमिदं भोजप्रबन्धे (२१०) प्यस्ति * पद्यमिदं सदुक्तिकर्णामृते ५-३७३ धर्मकीर्तरिति तत्र च पाठान्तरं तृतीये पदे 'वागर्थौ च तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं' T पद्यमिदं सुभाषितावल्यां ३०४४ धर्मविवेकादुद्धृतं बोथलिंक महाशयेन (सुभाषितावलि notes p. 93 ) तत्र चतुर्थे पदं यथा-तेषां कीर्तनमामनन्ति मुनयो धर्मस्य सूक्ष्मा गतिः ४ अमृते जारजः कुण्डो मृते भर्तरि गोलकः १ समानजातय P २ भोजप्रबन्धे पद्यमिदं ( २८८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy