________________
प्रबन्धचिन्तामणिः
[द्वितीयः वितान्तं कवित्वस्य संन्यास एवेति तत्प्रतिश्रवसमकालमेव यानपात्रे निर्यामकान्निक्षेप्यावगाह्यमाने नीरधौ षड्भिर्मासैस्तं प्रासादमासाद्य पुनर्भदनपट्टिकायां न्यस्तायामिदमेवोत्तरार्धमागतमालोक्य तस्मै तदुचितं पारितोषिकं प्रसादीचकार ॥ इति खण्डप्रशस्तेयथाश्रुतानि बहूनि काव्यानि मन्तव्यानि ॥ __ २५ कदाचिद्राज्ञा सेवाश्लथतां पृष्टः, स्वं पण्डितस्तिलकमञ्जरीगुंम्फवैयग्र्यं जगौ। शिशिरयामिन्याश्चरमयामे निर्विनोदत्वात्तां प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमञ्जरीकथां वाचयंस्तद्रसनिपातभीरुः पुस्तकस्याधः कचोलकयुतसुवर्णस्थालस्थापनापूर्व तां समाप्य तचित्रकविताचित्रीयमाणचित्तो नृपः पण्डितं प्राह । मामत्र कथानायकं कुर्वन् विनतायाः पदेऽवन्तीमारोपयन् शक्रावतारतीर्थस्य पदे महाकाल माकलयन् यद्याचसे तत्तुभ्यं ददामीत्यभिदधाने नृपे खद्योतप्रद्योतनयोः सर्षपकनकाचलयोः काचकाञ्चनयोः धतूरकल्पपादपयोरिव तेषां महदन्तरमित्युच्चरन्६७) दोमुहय निरक्खर लोहमइये नाराय तुज्झ किं भणिमो ।
गुञ्जाहि समं कणयं तोलन्तु न गउसि पायालं ॥ इत्याक्रोशपरे तस्मिन् जाज्वल्यमानेऽग्नौ श्रीभोजः तां मूलप्रतिमिन्धनीचकार । अथ स द्विधा निर्वेदभाम् द्विधाऽवाङ्मुखो निजसौधपश्चाद्भागे जीर्णमञ्चाधिरूढो निःश्वसन् भृशं सुप्वाप । बालपण्डितया तत्सुतया सभक्तिकमुत्थाप्य स्नानपानभोजननिर्मापणानन्तरं तिलकमञ्जरी* प्रथमादर्शलेखदर्शनासंस्मृत्य ग्रन्थस्या लेखयांचक्रे तदुत्तरार्ध नूतनीकृत्य ग्रन्थः समर्थितः ॥
१ सः Cd २ ग्रन्थ H ३ लोहमयी ३ ४ कित्तिय B ५ श्रीभोजे P * अयं तिलकमलरीग्रन्थो मुद्रितः ६ प्रथमादर्शलेखनात् cd
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org