SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] भोजभीमप्रबन्धाः। ६३) आबाल्याधिगमान्मयैव गमितः कोटि परामुन्नते रस्मत्संकथयैव पार्थिवसुतः सम्प्रत्यसौ लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽम्बुधे र्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः ॥ १ ॥ ६४) देवे दिग्विजयोद्यते धृतधनुः प्रत्यर्थिसीमन्तिनी· वैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरैपि त्रासान्न पौष्पं करे भर्तुर्धर्तुमदान्मदान्धमधुपीनीलीनिचोलं धनुः ॥ २ ॥ ६५) चिन्तागम्भीरकूपादनवरतचलद्भूरिशोकारघट्ट व्याकृष्टं निःश्वसन्त्यः पृथुनयनघटीयन्त्रमुक्ताश्रुधारम् । नासावंशप्रणालीविषमपथपतद्वाष्पपानीयमेतों देव त्वद्वैरिनार्यः स्तनकलशयुगेनाऽविरामं वहन्ति ॥ ३ ॥ इति संपूर्णेषु काव्येषु वाच्यमानेषु । ६६) अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः । अस्य काव्यस्योत्तरार्ध छिन्नपादिभिः परःशतैरपि पण्डितैः परिपूर्यमाणमपि विसंवदतीति राज्ञा धनपालपण्डितः पृष्टः । हरशिरसि शिरांसि यानि रेजु हरि हरि तानि लुठन्ति गृध्रपादैः ॥ १ ॥ इदमेवोत्तराध संवदतीति नृपेणोक्ते सति स पण्डितः प्रोवाच । यदि गुम्फार्थाभ्यां श्रीरामेश्वरप्रशस्तिभित्ताविदं न भवति तदतःपरमाजी १ वृद्धि प्राप्तो जरठश्च २ रतिरति d ३ मृदु B ४ एतत् B ५ अभिरामं B ६ छिन्नपदसंपादनशीलैः ७ हनुमन्नाटके ( अं. १४ श्लो. ४९), भोजप्रबन्धे १४९५ संस्करणे (पृ. २१६ ) च दृश्यते तत्र च कालिदासकविना पूरितमुत्तरार्धमिति कथितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy