SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४ प्रबन्धचिन्तामणिः। [द्वितीयः - ३५ अथान्यदा कस्यामपि निशि नृप एको न भव्य इति प्रच्छन्नं क्रीडाशुकं पाठयित्वा प्रातस्त्वया वाक्यमिदमुच्चारणीयमिति शिक्षितवान् । अथ तेन तथाभिधीयमाने नृपेण पृष्टाः पण्डिता निर्णयमजानन्तः पाण्मासीमवधि' याचितवन्तः । ततस्तन्मुख्यो वररुचिस्तन्निर्णयाय देशान्तर परिभ्रमन्केनापि पशुपालेनाहमेवामुं निर्णयं भवत्स्वामिने निवेदयिष्यामि । परममुं श्वानं वृद्धतया नोद्वोढुं वत्सलतया न मोक्तुं च शक्नोमीति तेनोक्ते तं श्वानं निजस्कन्धे समारोप्य पशुपालं सह नीत्वा नृपसभामुपागतस्तमुत्तरकारिणं निवेदयामास । अथ स पशुपालो नृपेण तदेव वचनं पृष्टः । अस्मिन् जीवलोके राजन् लोभ एवैको न भव्यः । राज्ञा कथमिति भूयोऽपि पृष्टः । यद्ब्राह्मणः श्वानं स्कन्धदेशेनास्पृश्यमपि वहति तल्लोभस्यैव विजृम्भितमतो लोभ एव न भव्यः इति एको न भव्यः प्रबंधः॥ ३६ अथान्यदा मित्रमात्रसहायो नृपतिनिशि परिभ्रमन्पिपासाकुलतया पणरमणीगृहं गत्वा मित्रमुखेन जलं याचितवान् । ततोऽतुच्छवात्सल्याच्छम्भल्या कालविलम्बनेनेक्षुरसपूर्णः करकः सखेदमुपानीयत । मित्रेण खेदकारणे पृष्टे, एकस्यामिक्षुलतायां पुरा रससंपूर्णः सवाहटिको घट आसीत् साम्प्रतं तु प्रजासु विरुद्धमा से नृपे चिरकालेन केवला वाहटिकैव भृतेति खेदकारणं । नृपस्तदाकर्ण्य केनापि वणिजा शिवा १ षण्मासी यावत्याचितव्यवधानाः H_L २ तजिघृक्षयावस्त्रान्तरितं श्वानं HL * अत्र H L आदशयोः निम्नलिखितमुपलभ्यते-यतः अहो लोभस्य साम्राज्यमेकच्छत्रमहीतले । तावनीतिविनीतत्वमतिशीलं कुलीनता । यावजगज्जयी लोभः क्षामं नाभ्येति जन्तुषु ॥ (पद्यमिदं H आदर्शप्रान्ते लिखितं ) इत्युचरन्कथमपि भूयोऽनुयुक्तः श्वानं दधानं विप्रमपगतावरणं दर्शयन् लोभवश• विसंस्थुलवृत्तिं ज्ञापयामास । ३ शूलेन भिद्यमानायां रसः परिपूर्णः सवोहटिको घट आसीत् Hc ४ विरुद्धमानसाय a P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy