SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रवन्धचिन्तामणिः । [द्वितीयः कृपापरः स्वप्रतिज्ञाभङ्गयातकं तीर्थेषु क्षालयितुमिच्छुः प्रतितीर्थं प्रतस्थे । अथ पितृभक्तेन शोभननाम्ना लघुपुत्रेण तं तदाग्रहानिषिध्य पितुः प्रतिज्ञा प्रतिपालयितुमुपात्तव्रतः स्वयं तान्गुरूननुससार ॥ अभ्यस्तसमस्तविद्यास्थानेन धनपालेन श्रीभोजप्रसादसंप्राप्तसमस्तपण्डितप्रकृष्टप्रतिष्ठेन निजसहोदरामर्षभावाद्वादशाब्दी यावत्स्वदेशनिषिद्धजै. नदर्शनप्रवेशेन तद्देशीपासकैरत्यर्थमभ्यर्थनया गुरुपुरुषेष्वाहूयमानेषु सकलसिद्धान्तपारावारपारदृश्वा स शोभननामा तपोधनो गुरूनापृच्छय तत्र प्रयातो धारायां प्रविशन् पण्डितधनपालेन राजपाटिकायां बजता तं सहोदरमित्यनुपलक्ष्य सोपहासं "गर्दभदन्त भदन्त नमस्ते” इति प्रोक्ते "कपिवृषणास्य वयस्य सुखं ते" इति शोभनमुनेर्वचसान्तश्चमत्कृतो मया नर्मणापि नमस्ते इत्युक्तेऽनेन तु वयस्य सुखं ते इत्युच्चरता वचनचातुर्यानिर्जितोस्मीति । तत्कस्यातिथयो यूयमिति धनपालस्यालापैर्भवत एवातिथयो वयमिति शोभनमुनेर्वाचमाकर्ण्य बटुना सह निजसौधे प्रस्थाप्य तत्रैव स्थापितः । स्वयं सौधे समागत्य धनपालः प्रियालापैः सपरिकरमपि तं भोजनाय निमन्त्रयंस्तैः प्रासुकाहारसेवापरैर्निषिद्धः । बलादोषहेतुं पृच्छन्४३) भजेन्माधुकरी वृत्ति मुनिम्लेंच्छकुलादपि । एकानं नैव भुञ्जीत बृहस्पतिसमादपि ।। तथाच जैनसमये दशवकालिके४४) महुकारसमा बुद्धा जे भवन्ति अणिस्सिया । नाणापिण्डरया दन्ता तेण वुच्चन्ति साहुणो ।। इति स्वसमयपरसमयाभ्यां निषिद्धं कल्पितमाहारं परिहरन्तः शुद्धाशनभोजिनो वयमिति तच्चरित्रचित्रितमनाः सतूष्णीकमुत्थाय सौधमाप । मजनारम्भे गोचरचर्यया समागतं तन्मुनि द्वन्द्वमवलोक्यासिद्धेऽन्नपाके १ प्रष्ट L K २ मवलोक्यसिद्धे P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy